Book Title: Jain Stotra Sanchayasya Part 1 2 3
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah Kapadwanj
View full book text
________________
साधारणजिनस्तवः
७५
ये संश्रितास्त्रिजगदीश्वरनाथमेकं,
त्वामेव तेष्वपि किमेवमहो! विरोधः ।।१२।। लुम्पन्ति गा द्विजपतेस्तमपीरयन्ति,
कण्ठे लगन्ति सुमनः सुदृशामशङ्कम् । मुक्तार्गलास्तव गुणा यदि वा प्रभुत्वात्,
कस्तान्निवारयति सञ्चरतो यथेष्टम् ॥१३॥ "चित्रं किमत्र यदि ते त्रिदशाङ्गनाभिः,
कण्ठेकृतः सपदि सद्गुणरत्नहारः। सद्वृत्तनिर्मलमहार्घतमेन जज्ञे, .
यन्नायकेन भवता भुवनप्रियोऽयम् ॥१४॥ अक्षैः कषायविषयैश्च न कौतुकं ते,
नीतं मनागपि मनो न विकारमार्गम् । वर्षाऽऽतपोत्थमथवा किमु चर्मरीत्या,
व्योम्नोऽपि मार्दवकठोरिमवैकृतं स्यात् ॥१५॥ क्षान्तोऽसि नाथ ! परमात्मसभाजिनां नः,
पीडासु किं किमपि नो तनुषे स्वतेजः । कल्पान्तकालमरुता चलिताचलेन,
यस्मात्पयोधिरपि लङ्घयति स्वसीमाम् ॥१६॥ विद्योन्मदैरपि न कौतुकमन्यतीर्थ्य
! शक्यते चलयितुं तव शासनश्रीः । दृष्टं श्रुतं क्वचन वा घनवातवृन्दैः,
कि मन्दरादिशिखरं चलितं कदाचित् ।।१७॥ "निधूंमत्तिरपजिततैलपूरः,
खे दीप्रदीप इयता ननु कोऽर्थ उल्का ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254