Book Title: Jain Stotra Sanchayasya Part 1 2 3
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah Kapadwanj

View full book text
Previous | Next

Page 250
________________ साधारणजिनस्तवः ७७ नाम्भोधरोदरनिरुद्धमहाप्रभाव स्तज्ज्योतिरीश ! कतमन्ननु यन्मयोऽसि ॥२४॥ रात्रिंदिवाऽभ्युदयिता रुचिसञ्चयाना __ महासिता च मिहिरे न महोमयेऽपि । ते तु त्वयीश ! सततं वसतस्ततस्त्वं, सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥२५॥ “नित्योदयं दलितमोहमहान्धकारं, त्वां दीप्यमानमभितः स्वतनुप्रभाभिः । मन्येऽनुकर्तुमिह दीपशिखाभिधानाः स्वःशाखिनस्तदनुरूपमहो ! यतन्ते ॥२६॥ ज्योत्स्नेन्दुमाह नु विधो ! भवतेश ! पार्वे, गम्यं न राहुवदनस्य न वारिदानाम् । तद्योगकश्मलतयाऽस्य न जातु यातु, त्वत्कीत्तिसाम्यपदवीति विदग्धबुद्धया ॥२७॥ सन्नेत्रपत्रलममत्रममात्रलक्ष्म्याः , सद्यः प्रसादजननं जनलोचनानाम् । विभ्राजते तव मुखाब्जमनल्पकान्ति, प्रेसत्यरागपरिषङ्गपिशङ्गिताशम् ॥२८॥ निस्तेजसी भवति कर्बापि नान्धकारं, नो मन्दयेत् कषति किन्तु समूलकाषम् । तृप्नोति कस्य नयनानि न ते मुखाब्ज, विद्योतयज्जगदपूर्वशशाडाकबिम्बम् ॥२९॥ ''कि शर्वरीषु शशिनाऽह नि विवस्वता वा, शक्येत कोऽपि तमसां प्रसरो निरोद्धम् । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254