Book Title: Jain Stotra Sanchayasya Part 1 2 3
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah Kapadwanj

View full book text
Previous | Next

Page 249
________________ ७६ साधारणजिनस्तवः कुक्षिम्भरिस्त्रिजगतां यमुनाऽमुनापि, स्यादेतदेव विदुषां तव देव ! कीत्तिः ॥१८॥ यत्त्वं गिरा मधुकिरा किल केदलीन्द्रः, . कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । तत्तावकीनकरणि कियदेतिकां ये, कर्तुं स्पृशन्ति विलिखन्ति नखैगिरि ते ।।१९।। स्पर्द्धा विधाय भवतोन्तिषदापि कश्चिद् यातः स्वमानमविहाय भवेदिदं चेत् । गम्यो न जातु मरुतां चलिताचलाना मेरण्डकोऽद्रिशिरसीत्यपि सूनृतं तत् ॥२०॥ दुःखेऽत्र दुष्षमतमासमये तमोभि ___ालुप्तचक्षुषि जने सुपथप्रवृत्त्यै । निष्कम्पनिर्मलनिरञ्जननित्यदीप्ति पोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥२१, "नास्तं कदाचिदुपयासि न राहुगम्यः, पूर्णः सदाप्यनवमः सुदशाधिकश्च । धत्ते कलङ्ककणिकामपि नो बुधेष्टः, स्पष्टं तथाप्यमृतसूरसि चित्रमेतत् ।।२२।। न स्नेहमुद्वहसि नाञ्जन-तीव्रते वा, स्पष्टीकरोषि सहसा युगपज्जगन्ति । दीपः क्व तत् क्व च भवाँस्तदपीह विज्ञं __ मन्योऽपि कि बत ! पतङ्गति दोषिवर्गः ॥२३॥ भौमं न तन्न च खजन्मजडैरनाशा स्थैर्याच्च न ग्रहगणप्रभवं यतस्त्वम् । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254