________________
७६
साधारणजिनस्तवः कुक्षिम्भरिस्त्रिजगतां यमुनाऽमुनापि,
स्यादेतदेव विदुषां तव देव ! कीत्तिः ॥१८॥ यत्त्वं गिरा मधुकिरा किल केदलीन्द्रः,
. कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । तत्तावकीनकरणि कियदेतिकां ये,
कर्तुं स्पृशन्ति विलिखन्ति नखैगिरि ते ।।१९।। स्पर्द्धा विधाय भवतोन्तिषदापि कश्चिद्
यातः स्वमानमविहाय भवेदिदं चेत् । गम्यो न जातु मरुतां चलिताचलाना
मेरण्डकोऽद्रिशिरसीत्यपि सूनृतं तत् ॥२०॥ दुःखेऽत्र दुष्षमतमासमये तमोभि
___ालुप्तचक्षुषि जने सुपथप्रवृत्त्यै । निष्कम्पनिर्मलनिरञ्जननित्यदीप्ति
पोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥२१, "नास्तं कदाचिदुपयासि न राहुगम्यः,
पूर्णः सदाप्यनवमः सुदशाधिकश्च । धत्ते कलङ्ककणिकामपि नो बुधेष्टः,
स्पष्टं तथाप्यमृतसूरसि चित्रमेतत् ।।२२।। न स्नेहमुद्वहसि नाञ्जन-तीव्रते वा,
स्पष्टीकरोषि सहसा युगपज्जगन्ति । दीपः क्व तत् क्व च भवाँस्तदपीह विज्ञं
__ मन्योऽपि कि बत ! पतङ्गति दोषिवर्गः ॥२३॥ भौमं न तन्न च खजन्मजडैरनाशा
स्थैर्याच्च न ग्रहगणप्रभवं यतस्त्वम् ।
"Aho Shrut Gyanam"