________________
साधारणजिनस्तवः
७७
नाम्भोधरोदरनिरुद्धमहाप्रभाव
स्तज्ज्योतिरीश ! कतमन्ननु यन्मयोऽसि ॥२४॥ रात्रिंदिवाऽभ्युदयिता रुचिसञ्चयाना
__ महासिता च मिहिरे न महोमयेऽपि । ते तु त्वयीश ! सततं वसतस्ततस्त्वं,
सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥२५॥ “नित्योदयं दलितमोहमहान्धकारं,
त्वां दीप्यमानमभितः स्वतनुप्रभाभिः । मन्येऽनुकर्तुमिह दीपशिखाभिधानाः
स्वःशाखिनस्तदनुरूपमहो ! यतन्ते ॥२६॥ ज्योत्स्नेन्दुमाह नु विधो ! भवतेश ! पार्वे,
गम्यं न राहुवदनस्य न वारिदानाम् । तद्योगकश्मलतयाऽस्य न जातु यातु,
त्वत्कीत्तिसाम्यपदवीति विदग्धबुद्धया ॥२७॥ सन्नेत्रपत्रलममत्रममात्रलक्ष्म्याः ,
सद्यः प्रसादजननं जनलोचनानाम् । विभ्राजते तव मुखाब्जमनल्पकान्ति,
प्रेसत्यरागपरिषङ्गपिशङ्गिताशम् ॥२८॥ निस्तेजसी भवति कर्बापि नान्धकारं,
नो मन्दयेत् कषति किन्तु समूलकाषम् । तृप्नोति कस्य नयनानि न ते मुखाब्ज,
विद्योतयज्जगदपूर्वशशाडाकबिम्बम् ॥२९॥ ''कि शर्वरीषु शशिनाऽह नि विवस्वता वा,
शक्येत कोऽपि तमसां प्रसरो निरोद्धम् ।
"Aho Shrut Gyanam"