________________
७८
साधारणजिनस्तवः अव्याहतैस्तव महोभिरिमानि पूर्व
मुद्योतिभिर्यदि हि जर्जरितानि न स्युः ॥३०॥ बाह्येषु चान्तरगतेषु च विष्टपस्य,
युष्मन्मुखेन्दुलितेषु तमस्सु नाथ !। एतौ जगत्युदयतो यदि पुष्पदन्तौ,
तन्नूनमान्तरतमःक्षयशिक्षणार्थम् ॥३१॥ स्वामिन् ! प्रभावविभवैर्भुवने भृते ते,
सर्वेऽप्यमी जनपदाः सुखदा भृशं नः । निष्पन्नशालिवनशालिनि जीवलोके,
यद्वा शुकः क्वचन तिष्ठति कि क्षुधातः ? |॥३२॥ मुक्त्यथिनां किमपरैरभियोगयोगै--
स्त्वत्पादभक्तिकरणे यदि शक्तिरस्ति । चेत् शालयः समूदपत्सत पङ्किलैस्तत्,
कार्य कियज्जलधरैजलभारनम्रः ॥३३॥ २°ज्ञानं यथा त्वयि विभाति कृतावकाशं,
साऽऽलोकलोककलनास्वनिभं नभस्वत् । क्वाऽन्येषु तस्य कणिकाऽप्यथवाऽऽप्यते किं,
__ कल्पद्रुमः क्वचन मारवमेदनीषु ॥३४॥ दैवी कलां त्वयि यथाऽर्हति सम्यगास्ते,
नैवं तथा हरिहरादिषु नायकेषु । यत्सौरभं मलयचन्दनपादपानां,
भाव्यं क्व तेन मरुमण्डलशाल्मलीषु ? ॥३५॥ श्रीसर्ववेदिनि जिन ! त्वयि यादृशी श्रीः,
क्वैषा कियन्मतिधरेषु सुरान्तरेषु ।
"Aho Shrut Gyanam"