________________
साधारण जिनस्तव:
तेजःस्फुरन्मणिषु याति यथा महत्त्वं,
fi दुष्टष्टशकलेऽपि तथैव तत्स्यात् ? ॥३६॥
साऽऽडम्बरेष्वपि सुरेष्वपरेषु नेत्रे,
नो रंरतस्त्वयि यथा गतडम्बरेऽपि ।
ज्ञानां रतिर्भवति धूसरितेऽपि रत्ने,
नैवं तु काचशकले किरणाकुलेऽपि ॥३७॥
भक्तामरस्थनवपद्यपदप्रसूनैः,
षट्त्रिंशतेति खचितां नवकाव्यमालाम् । भक्त्या विधाय महितः परमेश्वरो मे,
७९
श्री सोमसुन्दर शिवालयवासदः स्तात् ॥३८॥
॥ इति श्रीभक्तामरस्तवमध्यगतवृत्तनवकस्यैकैकपादरूपसमस्याभिविरचितः साधारणजिनस्तव:
श्री महोपाध्याय - श्रीमहंसगणिपादैः कृतः ॥
"Aho Shrut Gyanam"