________________
८०
एकः श्लोकः
एकः श्लोकः ।
यामाता मम ! ता मा या, मा परोक्षक्षरोपमा । तारोने गगने रो ! ता-मक्षगक्षक्ष ! गक्षम ! || १॥
व्याख्या - अथ गुरुः शिष्यं वक्ति - हे अमम !, हे रो ! - सर्वजीवरक्षणपर ! हे गगने गक्षम ! - हे आकाशे गमनसमर्थ !, किं विशिष्टे गगने ? तारोने - ताराभिः ऊने - ताराविवर्जिते सकलगगनगमनसमर्थ इति । आकाशगा मिलब्धिमत्त्वात् । हे अक्षगक्षक्ष ! -अक्षगम्-इन्द्रियवशगं यत् क्षं- क्षेत्रं वपुस्तत्र तपः पभृतिभिः क्षयकारित्वात् क्ष-राक्षसतुल्य हे साधो !, तां, तां - लक्ष्मीं प्रति ममतां - स्मरणमपि मा अय- मा गच्छ । तां कां ? या अपरोक्षक्षरोपमा - अपरोक्षाणि क्षराणि - चञ्चलानि उपमानानि यस्याः सा तथा । किं विशिष्टो मुनिः ? अमाता - स्वजनादिसङ्गरहितः । इति ।
समास
"Aho Shrut Gyanam"