Book Title: Jain Stotra Sanchayasya Part 1 2 3
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah Kapadwanj

View full book text
Previous | Next

Page 241
________________ ऋषभस्तुतिः । श्री भापनिस्तुतिः । प्रमुखसुखनिदर्शनं दर्शनं दर्शनंदादिनाग्रेसरद्वासरप्रोदिता तोदितामोदिताशेष'कौमुदीकान्त कान्तस्य ते, वृषभजिन ! निरर्गलालोकलोकालिकालच्छवीमत्कुवेलाविला ज्ञानभानप्रमीलाकुवेलावहेलामहेलालसं नालसम् । लसदसमरसेनसेनारसेनासुराभासुरावासुराबालबाला अबालाश्च बालाः स्ववालादिभूषादिकृत्यत्यजिप्रत्यला, विदधति रतिकारणं प्रक्षरत्कारणं सम्पदाकारणं तामसावारणं व्यापदां वारणं सर्वसाधारणं सातनिर्धारणम् ॥१॥ जनितमनितसङ्गमाजङ्गमारङ्गमाला इवोद्भङ्गमारास्तथा तुङ्गमा रातिजातिस्मयं दुर्जयं नाशयन्तो भवद्विस्मयं, स्फुरदतिशयसञ्चयं तीर्थंकृत्त्वोदयं लाभलक्ष्म्यालयं भूतभूताभयं सर्वदेवव्रजद्धर्युच्चयं तर्जयन्तः श्रयन्तः स्वयम् । नवतरुतरुणारुणादारुणा भारुणाश्माजनादय गाङ्गेयखर्जूर कर्पूरपूरोपमानाऽसमानाद्भुतस्फूत्तिमूत्तिप्रभा, भवभयभरभेदकाः सन्तु ते मेदका म्लानविद्वेदकाः क्षीण तद्वेदकाः सर्वथा भेदनिर्वेदका: सर्वसंवेदकाः सत्सभाः ।।२।। अतिमतियतिपुङ्गवैस्तुङ्गवैरङ्गिकरङ्गिकैवल्यकल्याण ___ कल्पत्वदैः शल्यचापल्यवैकल्यदैर्यो विधेः सङ्गते धीयते, सहृदयहृदयोल्लसद्धर्म्यहर्येचयः शास्त्रतात्पर्यवर्यार्थसाथैः __ कृतार्थीकृतेररोचिरप्रत्नरत्नोज्ज्वलागाररत्नायते । विषयविषगूढपातू क्ष्वेडमूर्तात्मनां मूर्तिमद् धर्मधीचेतना वालनाज्जाङ्ग लीविद्यया विद्यते विद्यमानोपमानश्चयः, स च जिनसमयो मयोद्गीयते नित्यमादीयते चित्र आधी (पी) यते साधवे दीयते वृद्धिमानीयते हीयते नो न तत् क्षीयते ॥३॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254