Book Title: Jain Stotra Sanchayasya Part 1 2 3
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah Kapadwanj

View full book text
Previous | Next

Page 224
________________ स्तुतिस्तोत्ररत्नकोषः ५१ १। नन्दीश्वरपट्टादौ देववन्दने शाश्वतजिनचतुष्टयस्तुतिः ॥ - कं-च सुखं रमा च करमे, सु-भृशं करमे सुकरमे, सुकरे-सुदाने सुकरमे यस्य । हे देव ऋषभ ! हे वर्द्धमान ! हे चन्द्रानन ! हे वारिषेणेति शाश्वतजिनचतुष्कसम्बोधनानि । तत्र च त्वं चेति (च) कारेण समुचितस्य त्वमादीनि सर्वाणि यथार्ह योज्यन्ते प्रत्येकम् । त्यत्तदोनित्याभिसम्बन्धात् तदो गम्यत्वेन हे ऋषभदेव ! स त्वं मां पाहि इति योगः । स त्वं महेशधवलकीर्तिपोषकृत् । सुखानां सुहदि मित्रे इव, सुखसङ्गममिच्छतीति भावः। हृदि भव्यानामिति गम्यम् । स्थितः सन् जननजरामरणानि हरसीत्ति योगः ॥२८॥ स जय सजयशर्मणिदायिन् ! महिम्नां भवन ! भवनगौघस्फूर्जथुः पुण्डरीक !। तमसि तमसि बाचो यस्य भेजुः प्रजानां किरणकिरणलीलाक्लुप्तविश्वप्रकाशाः ॥२९॥ श्रीपुण्डरीकस्तुतिः । हे श्रीपुण्डरीकगणधर ! स त्वं जय । हे सजयशर्मश्रेणिदायिन् ! जयो-बाह्यान्तर्वैरिपराभवात्सर्वोत्कर्षेण वर्त्तनं, तेन सहितेति जिनस्य पृथग् सम्बोधनम् शर्मणो वा विशेषणम् । भव:- संसारो, भवा-एकेन्द्रियादिजन्मानि वा, नगौघ:-पर्वतनिवहः तस्मिन् स्फूर्जथुर्वज्रम् । इदं त्वमित्यस्य विशेषणम् । तमः-पापं तदेव ज्ञानचक्षुस्तत्त्वालोकाद्यपहारादन्धकारं तस्मिन् किरण: (स्य) सूर्यस्य ये किरणा-रश्मयस्तल्लीलां ॥२९॥ • शमिन ! शमिनत ! श्री गौतमाशेषभक्ते हितद ! हित ! दयस्व त्वं ममाऽनन्तमाशु । .. शिवद ! शिवदशात्मन्नादिमो वीरशिष्यावलीषु वलिषु सीम्नो मोहवीरस्य जेता ॥३०॥ श्रीगौतमस्तुतिः । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254