________________
स्तुतिस्तोत्ररत्नकोषः
५१ १। नन्दीश्वरपट्टादौ देववन्दने शाश्वतजिनचतुष्टयस्तुतिः ॥ - कं-च सुखं रमा च करमे, सु-भृशं करमे सुकरमे, सुकरे-सुदाने सुकरमे यस्य । हे देव ऋषभ ! हे वर्द्धमान ! हे चन्द्रानन ! हे वारिषेणेति शाश्वतजिनचतुष्कसम्बोधनानि । तत्र च त्वं चेति (च) कारेण समुचितस्य त्वमादीनि सर्वाणि यथार्ह योज्यन्ते प्रत्येकम् । त्यत्तदोनित्याभिसम्बन्धात् तदो गम्यत्वेन हे ऋषभदेव ! स त्वं मां पाहि इति योगः । स त्वं महेशधवलकीर्तिपोषकृत् । सुखानां सुहदि मित्रे इव, सुखसङ्गममिच्छतीति भावः। हृदि भव्यानामिति गम्यम् । स्थितः सन् जननजरामरणानि हरसीत्ति योगः ॥२८॥ स जय सजयशर्मणिदायिन् ! महिम्नां
भवन ! भवनगौघस्फूर्जथुः पुण्डरीक !। तमसि तमसि बाचो यस्य भेजुः प्रजानां किरणकिरणलीलाक्लुप्तविश्वप्रकाशाः ॥२९॥ श्रीपुण्डरीकस्तुतिः ।
हे श्रीपुण्डरीकगणधर ! स त्वं जय । हे सजयशर्मश्रेणिदायिन् ! जयो-बाह्यान्तर्वैरिपराभवात्सर्वोत्कर्षेण वर्त्तनं, तेन सहितेति जिनस्य पृथग् सम्बोधनम् शर्मणो वा विशेषणम् । भव:- संसारो, भवा-एकेन्द्रियादिजन्मानि वा, नगौघ:-पर्वतनिवहः तस्मिन् स्फूर्जथुर्वज्रम् । इदं त्वमित्यस्य विशेषणम् । तमः-पापं तदेव ज्ञानचक्षुस्तत्त्वालोकाद्यपहारादन्धकारं तस्मिन् किरण: (स्य) सूर्यस्य ये किरणा-रश्मयस्तल्लीलां ॥२९॥ • शमिन ! शमिनत ! श्री गौतमाशेषभक्ते
हितद ! हित ! दयस्व त्वं ममाऽनन्तमाशु । .. शिवद ! शिवदशात्मन्नादिमो वीरशिष्यावलीषु वलिषु सीम्नो मोहवीरस्य जेता ॥३०॥ श्रीगौतमस्तुतिः ।
"Aho Shrut Gyanam"