________________
स्तुतिस्तोत्ररत्नकोषः हे श्रीगोतम ! हे इन-स्वामिन् ! ममाऽनन्तं शं-सुखं शैवमित्यर्थः । त्वमाशु दयस्व-देहीति योगः । अशेषं भक्तानामीहितदं इष्टदायि, हितं-तात्त्विकं ज्ञानत्रयं यस्य । शिवा-सर्वरोगाद्युपद्रवरहिता दशाऽवस्थाविशेषात्मस्वरूपं यस्य । गणभृतां रोगजरादिरहितदशात्मकत्वात् । हरिहरपुरन्दरादिसुभटवशीका. रान्मोहस्य बलिषु सीमत्वं सिद्धमेव ॥३०॥ जयद ! जयदनन्तानन्दचिद्दर्शनौजो
मय ! समयसदेकत्रिंशदुधद्गुणस्त्वम् । हवयहृदयभन्मे देहि शं सिद्धराजाs
समसुसमसुखानां ते हि कोशोऽस्तपारः ॥३१॥ । श्रीशाम्ब-प्रद्युम्न-रथनेमि-मरुदेवा-राजीभत्यादिश्रीसिद्धस्तुतिः ।
जयन्ति-बाह्यान्तरिपराभवेन सर्वोत्कर्षवन्ति अनन्तान्यानन्दज्ञान (दर्शन) वीर्याणि प्रकृतानि यस्मिन् स तन्मय :। समये सन्तोऽर्थात् प्ररूपिता एकत्रिंशत्सङ्ख्या उद्यन्तो गुणा आदिगुणा यस्य । ते च गुणा:-संस्थान ५ वर्ण १० गन्ध १२ रस १७ स्पर्श २५ वेद २८ काय २९ सङ्ग ३० जन्म ३१ निषेधरूपाः। 'नवदरिंसणम्मि चत्तारि आउए पंच आइमे अंते । सेसे दो दो भेया खीणभिलावेण इगतीसं ॥ इति गाथोक्ता वा। हृदयं हरतीति हृदयहृद्-निरुपमसुखफल इत्यर्थः । स चासौ अयश्च-शुभदैवं तं बिति-पुष्णाति स्वसेवार्चादिभिः स्वसेवकादीनां स तथा । असमानाम्-'इअ सिद्धाणं सुक्खं अणोवम्म नत्थि तस्स उवम्म' [आवश्यक नि०] इत्यादिवचनान्निरुपमानामत एव स्थितिमजितानां समेषामन्यू नानां । हि-यस्मात् ते-तव कोश इव कोशोऽपारोऽनन्तानामपि दानेऽक्षय्योऽस्ति । तदात्मकत्वात्तवेतिदानयुक्त्युक्तिः।
"Aho Shrut Gyanam"