________________
स्तुतिस्तोत्ररत्नकोषः
५३ कृतिसुकृतिसुरेन्द्राद्यच्यं ! हे सिद्धचक्राs
नवमनवमहःधीदाय्यनन्तप्रभावः । सुमह ! सुमहतां त्वं सर्वतो ध्यानलीला
पद ! विपदविताम् देहि मे शर्म शैवम् ।।३२।। । श्रीसिद्धवर्गस्य सिद्धचक्रस्य वा स्तुतिः । कृतिनो-देवादितत्त्वाभिज्ञाः, सुकृतिन:-पुण्यबीजभाजः, अन्येषां तदर्चाया अयोगात् । अनवमा-उत्कृष्टाः, अत एव नवा-प्रागऽप्राप्तपूर्वा या महश्री-ज्ञानप्रतिष्ठापूजादितेजोलक्ष्मीस्तस्या दायी। अनन्तः प्रभावो यस्य । शोभना महा उत्सवा यस्मात् इत्यामन्त्रणम् । पूजितमहतां योगिनामित्यर्थः । ध्यानसुभगतास्थान ! विपद्भूयोऽवनशील !। सिद्धचक्रस्य कैश्चिदालिख्य पूज्यमानस्य सिद्धवर्गस्य एकदा गणधरादिपट्टस्थस्य बहुसिद्धप्रतिमारूपस्य वा स्तुतिः ॥३२॥ महाऽऽयतमहायतच्चरणवन्दनाः श्रीजिनाः
सदोदयसदोदयप्रथितशुद्धपुण्याऽऽगमाः । सुभाववसुभाववत्रिदशराजवृन्दाचिताः
___ सुरोचितसुरोचितप्रचितदामभि: पातु माम् ।।३३॥
महान्तः-प्रौढाः, स्थाने २ विभावनाद् विस्तीर्णा ये महाउत्सवास्तेषां आयस्य-लाभस्य 'गतिकारकस्ये' [सि० ३।२।८५] ति दीर्घत्वाभावाय तनोतीति तदिति पृथग् निष्पाद्य योजने विस्तारकं चरणवन्दनं येषां ते तथा । सदा-नित्यं, उदयो यस्याः सा सदोदया, ईदृशी सदसोऽर्थात् श्रोतृसभाया दया येभ्यस्ते सदोदया, प्रथितानि-विस्तारितानि शुद्धपुण्यानि यैस्ते प्रथितशुद्धपुण्याश्चागमाः सिद्धान्ता येषाम् । सु-शोभनो भावः श्रद्धा सुभावः, स एवानन्तसुखहेतुत्वाद्वसु-द्रव्यं तस्य भावः-सत्ता तद्वन्तो ये त्रिदश
"Aho Shrut Gyanam"