SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ५४ स्तुतिस्तोत्र रत्न कोषः : 3 राजान:- सुरेन्द्रास्तैरच्चिताः कैः ? इत्याह- सुष्ठु भृशं रोचितैःशोभितैः सुराणां जिन पूजार्थमुचितैर्योग्यैः, कल्पद्रुमादिभ्यः प्रचितैर्मीलितैर्दामभि: - पुष्पस्रग्भिः ॥३३॥ सन्तः सन्ततशर्मणे दधति यं धीरोचिधीरोचित श्रीद ! श्रीदमदर्शक हृदि स ते सम्पन्न सम्पन्नतः । प्राणिप्राणितदानवाग् वितनुतां सर्वज्ञ ! सर्वज्ञराट्श्रेयः श्रेयसि वासकानि समयः पुण्यानि पुण्यानि मे ||३४|| 3 हे सर्वज्ञ ! सन्ततशर्मणे - नित्यसुखाय शिवायेत्यर्थः, हृदि दधति - धारयन्ति यं स ते समय :- आगमः, पुण्यानि - आशसारहितविधानादिना पवित्राणि श्रेयसि - मोक्षे, वासकानि - वासप्रदानि मे - मम वितनुतामिति योगः । धिया बुद्ध्या रोचन्त इति धीरोचिनो ये धीराः पुण्यकर्मसु सात्त्विकास्तेषामुचितां सत्त्वसाव्यामतां श्रियम्-इह महाराज्यादिकां परत्र चानुत्तरसुरशिवशर्म रूपां च ददातीति सर्वज्ञामन्त्रणम् श्रिया युक्तस्य दमस्य- इन्द्रियनोइन्द्रियनियन्त्रणारूपस्य दर्शकं ज्ञापकम् । सम्पन्नाः सम्पदो येषां तैरर्थादिन्द्रनुपादिभिर्नतः, प्राणिनां जन्तूनां प्राणितस्य- जीवितस्य दानं वक्तीति ( वाक् ) 'दिद्युदि' [ सि० ५।२।८३ ] त्यादिनिपाते जीवदयाख्यापक इत्यर्थः । सर्वज्ञराड्भिः - विज्ञ राजैः श्रेय-आश्रयणोयः ||३४|| t - - कारं कारं जिनानामतिमतिविभवा ये स्तवं वास्तवं वाः साराऽऽसाराः स्वभक्तेहितहितविपिने स्युः समानाऽसमानाः । क्रीडाक्रीडा महिम्नां सरसरतिसुरीराजयः श्रीजयश्री श्रेयः श्रेयस्विनस्तेऽसुरसुरपतयो मे क्रियासु क्रियासुः ||३५|| इति स्तुतयः "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy