________________
स्तुतिस्तोत्ररत्नकोषः
५५ ये (असुर) सुरपतयोऽत्यर्थ बुद्धिसमृद्धयः स्वभक्तेहितहित विपिने वाः सारासाराः स्युरिति योगः। कोऽर्थ: ? स्वभक्तवाञ्छितहितकानने वारां-जलानां, सारश्च आसारो-वेगवान् वर्षस्तद्रूपास्तत्पल्लवनहेत व इत्यर्थः । समाना: साम्यत्वात् असमानाश्चानन्यसदृशा महिमादिभिः। खञ्जकुटादिवत् समासः । महिम्नां क्रीडाक्रीडाः-केलियोग्यराजलोकोचितोद्यानरूपाः । सरसाश्चित्ताक्षेपहेतवो रतय:-कामानुगाह,लादविशेषा याभ्यस्ता: सुरीराजयःअप्सरःश्रेण्यो येषां ते, सुरीराजियुता इत्यर्थः, श्रियो-रामाः, जयःसर्वोत्कर्षः, श्रियः-शोभा, श्रेयांसि-शिवानीतिपदचतुष्कस्य समाहारद्वन्द्वे कर्मणि द्वितीयैकवचनम् । कल्याणभाजः । समवसरणकरणादि यः (ष) सुराणां प्रागपयोगाल्लोकरूढया तेषां बलित्वाद्वा प्राग निर्देशः । कर्मकर्मसु ॥३५' . एवं यो मतिमान् स्तुते जिनवरान् भक्त्या समग्रान् क्रमात
शकालोमुनिसुन्दरस्तवगणैतक्रमाम्भोरुहान् । सर्वाभीष्टसुखोच्चौरविरतं स्फूर्जत्प्रमोदाद्वयो
मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥३६।। ___ शकाल्या मुनीनां च सुन्दरैस्तवगणैः ।।३६।।
अनेन स्तवनमपि। इति वर्तमानचतुर्विशतिजिनानां श्री सीमन्धरस्य साधारणवृत्त्या जिनस्य युगपद्धहुजिनानां शाश्वतजिनचतुष्कस्य सिद्धस्य सिद्धचक्रस्य च मङगलशब्दार्थाक्षरार्थ यमकैर्वर्द्धमानाश्च स्तुतयः स्तवनं च । इति पञ्चशक्रस्तवः श्रीदेववन्दने आसामुभयोनामपि कथनेन मङगलमयाऽक्षरार्थयमकर्वर्द्धमानाः स्तुतयो भवन्तीति एतासां प्रागविभाव्यमानतज्जातीयानां करणोद्यम इति ।
"Aho Shrut Gyanam"