Book Title: Jain Stotra Sanchayasya Part 1 2 3
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah Kapadwanj

View full book text
Previous | Next

Page 225
________________ स्तुतिस्तोत्ररत्नकोषः हे श्रीगोतम ! हे इन-स्वामिन् ! ममाऽनन्तं शं-सुखं शैवमित्यर्थः । त्वमाशु दयस्व-देहीति योगः । अशेषं भक्तानामीहितदं इष्टदायि, हितं-तात्त्विकं ज्ञानत्रयं यस्य । शिवा-सर्वरोगाद्युपद्रवरहिता दशाऽवस्थाविशेषात्मस्वरूपं यस्य । गणभृतां रोगजरादिरहितदशात्मकत्वात् । हरिहरपुरन्दरादिसुभटवशीका. रान्मोहस्य बलिषु सीमत्वं सिद्धमेव ॥३०॥ जयद ! जयदनन्तानन्दचिद्दर्शनौजो मय ! समयसदेकत्रिंशदुधद्गुणस्त्वम् । हवयहृदयभन्मे देहि शं सिद्धराजाs समसुसमसुखानां ते हि कोशोऽस्तपारः ॥३१॥ । श्रीशाम्ब-प्रद्युम्न-रथनेमि-मरुदेवा-राजीभत्यादिश्रीसिद्धस्तुतिः । जयन्ति-बाह्यान्तरिपराभवेन सर्वोत्कर्षवन्ति अनन्तान्यानन्दज्ञान (दर्शन) वीर्याणि प्रकृतानि यस्मिन् स तन्मय :। समये सन्तोऽर्थात् प्ररूपिता एकत्रिंशत्सङ्ख्या उद्यन्तो गुणा आदिगुणा यस्य । ते च गुणा:-संस्थान ५ वर्ण १० गन्ध १२ रस १७ स्पर्श २५ वेद २८ काय २९ सङ्ग ३० जन्म ३१ निषेधरूपाः। 'नवदरिंसणम्मि चत्तारि आउए पंच आइमे अंते । सेसे दो दो भेया खीणभिलावेण इगतीसं ॥ इति गाथोक्ता वा। हृदयं हरतीति हृदयहृद्-निरुपमसुखफल इत्यर्थः । स चासौ अयश्च-शुभदैवं तं बिति-पुष्णाति स्वसेवार्चादिभिः स्वसेवकादीनां स तथा । असमानाम्-'इअ सिद्धाणं सुक्खं अणोवम्म नत्थि तस्स उवम्म' [आवश्यक नि०] इत्यादिवचनान्निरुपमानामत एव स्थितिमजितानां समेषामन्यू नानां । हि-यस्मात् ते-तव कोश इव कोशोऽपारोऽनन्तानामपि दानेऽक्षय्योऽस्ति । तदात्मकत्वात्तवेतिदानयुक्त्युक्तिः। "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254