Book Title: Jain Stotra Sanchayasya Part 1 2 3
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah Kapadwanj

View full book text
Previous | Next

Page 226
________________ स्तुतिस्तोत्ररत्नकोषः ५३ कृतिसुकृतिसुरेन्द्राद्यच्यं ! हे सिद्धचक्राs नवमनवमहःधीदाय्यनन्तप्रभावः । सुमह ! सुमहतां त्वं सर्वतो ध्यानलीला पद ! विपदविताम् देहि मे शर्म शैवम् ।।३२।। । श्रीसिद्धवर्गस्य सिद्धचक्रस्य वा स्तुतिः । कृतिनो-देवादितत्त्वाभिज्ञाः, सुकृतिन:-पुण्यबीजभाजः, अन्येषां तदर्चाया अयोगात् । अनवमा-उत्कृष्टाः, अत एव नवा-प्रागऽप्राप्तपूर्वा या महश्री-ज्ञानप्रतिष्ठापूजादितेजोलक्ष्मीस्तस्या दायी। अनन्तः प्रभावो यस्य । शोभना महा उत्सवा यस्मात् इत्यामन्त्रणम् । पूजितमहतां योगिनामित्यर्थः । ध्यानसुभगतास्थान ! विपद्भूयोऽवनशील !। सिद्धचक्रस्य कैश्चिदालिख्य पूज्यमानस्य सिद्धवर्गस्य एकदा गणधरादिपट्टस्थस्य बहुसिद्धप्रतिमारूपस्य वा स्तुतिः ॥३२॥ महाऽऽयतमहायतच्चरणवन्दनाः श्रीजिनाः सदोदयसदोदयप्रथितशुद्धपुण्याऽऽगमाः । सुभाववसुभाववत्रिदशराजवृन्दाचिताः ___ सुरोचितसुरोचितप्रचितदामभि: पातु माम् ।।३३॥ महान्तः-प्रौढाः, स्थाने २ विभावनाद् विस्तीर्णा ये महाउत्सवास्तेषां आयस्य-लाभस्य 'गतिकारकस्ये' [सि० ३।२।८५] ति दीर्घत्वाभावाय तनोतीति तदिति पृथग् निष्पाद्य योजने विस्तारकं चरणवन्दनं येषां ते तथा । सदा-नित्यं, उदयो यस्याः सा सदोदया, ईदृशी सदसोऽर्थात् श्रोतृसभाया दया येभ्यस्ते सदोदया, प्रथितानि-विस्तारितानि शुद्धपुण्यानि यैस्ते प्रथितशुद्धपुण्याश्चागमाः सिद्धान्ता येषाम् । सु-शोभनो भावः श्रद्धा सुभावः, स एवानन्तसुखहेतुत्वाद्वसु-द्रव्यं तस्य भावः-सत्ता तद्वन्तो ये त्रिदश "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254