Book Title: Jain Stotra Sanchayasya Part 1 2 3
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah Kapadwanj

View full book text
Previous | Next

Page 232
________________ श्रीशङ्केश्वरपार्श्वनाथस्तवनम् भाग्योदयेन भविनां भगवस्त्वदीयं, संदर्शनं भवति दुस्तमसा भिदायै । भानोर्मरीचिनिचये स्फुरिते समन्तात्, कि वा न नश्यति तमिश्रविमिश्रितो (ता) वा ॥९॥ त्वन्नायकस्त्वमसि सार्वजनीनबन्ध स्त्वं तारकः सकलदुर्जनवारकस्त्वम् । नीतस्त्वयाहमियतीमिह वन्द्यभूमि, तद्देहि सम्प्रति पदं परमं स्वकीयम् ॥१०॥ सिद्धेविधास्त्वदभिधा विविधानुभावा ललक्ष्मीस्त्वदीयपदसेवनया घशेव । सम्प्राप्यते तनुभृता निभृता नितान्तं, कीर्तिस्तदेकसुररत्नमयस्त्वमत्र ।।११।। नीताः क्षयं रिपुजना जनपूजनाऽपि, सम्प्रापिता मयि कलाः सकलाः फलाढयाः । सद्योऽनवद्यसुरवन्ध ! विभिद्य माद्यत् कर्माणि देहि परमं पदमीश ! मह्यम् ।।१२।। लुप्ता: क्रियास्त्वदुदिताश्चरणस्य दुष्टै क्लस्वरूपकलिकालकरालयोगात । ५. त्वदभिधाया:-त्वन्नाम्नः विविधानुभावात्-विविधप्रभावात् सिद्धेः-मुक्तिलक्षणस्येष्टकार्यसिद्धेर्वा विधा:-प्रकाराः प्राप्यन्त इतिशेषः त्वदीयपदसेवनया वशा-बशवत्तिनीव लक्ष्मीः सम्प्राप्यते तथा निभृता कीत्तिः नितान्तं सम्प्राप्यते तत्-तस्मात् एकः-अद्वितीयः सुररत्नमयः-चिन्तामणिस्वरूपः त्वं अत्र-संसारे इति भावः । ६. अनवद्यसुरवन्ध ! हे विभो ! माद्यत् कर्माणि विभिद्य हे ईश ! मह्यं परमं पदं देहि । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254