Book Title: Jain Stotra Sanchayasya Part 1 2 3
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah Kapadwanj
View full book text
________________
स्तुतिस्तोत्ररत्नकोषः
५०
स मतसमतयापि श्रीजिनस्त्रयभक्तो
.
जयतु जयतुराषाट् कर्मवैत्यव्रजस्य ॥ २६ ॥ साधारणस्तुतिरियम् । सताम्-उत्तमानाम् अत्यर्थं सत्य : - प्रशस्याः, सद्भिरतिपूजिता वा अतिशीतिश्रिय - अति ( शय) लक्ष्म्यस्तासां महिम्ना । अप्रतिहतोत्सवश्रेणीः । मता-अभिमता, या समता मता भवति, स कथं भक्तांस्त्रायति ?, तस्य हि सर्वेषां सामान्येन त्राणत्राणमौदासीन्यं वा युज्यतेति विरोधदीपकोऽपिशब्दः । विरोधपरिहारस्त्वेवं मतसमतेति चित्तविषयं जिनस्य मंत्री - प्रमोद - कारुण्य- माध्यस्थ्य सद्भावेऽपि भक्तानामेव पालयितुं शक्यत्वात्तेन कालसीकरिकादिषु तथा श्रवणात् । कर्मदैत्यव्रजस्य जये तुराषाट् – इन्द्रः ।।२६।। निजजनिजजयीद्धनन्दसौख्यैस्त्रिलोकी-
महद ! महदनन्तं देहि मे ब्रह्मशर्म ।
सुदयसुदयसम्यक्तत्त्व ! विश्वाङ्गिचेतः
कुमुदकुमुदबन्धों ! श्रीजिनाधीशवर्ग ! ॥२७॥ चतुर्विंशतिजिन सप्ततिशत जिनपट्टादौ देववन्दने युगपद् बहुजिनस्तुतिरियम् ।
निजा - जनयो- जन्मानि तत्प्रभवप्रभाविनी जयीनि-नारकादीनामपि स्वप्रतिपक्ष हेतुदुःखघातात्सर्वोत्कर्षेण वर्तमानानि, इद्धानिमिथः परैरपि विभाव्यमानत्वेन दीप्तानि, आनन्दसौख्यानि तै: कृत्वा हे त्रिलोकीमहद- त्रिजगत्युत्सवप्रद ! सुखान्तरेभ्यो गुरु | सदयानि - अनायासदेयानि सुदयानि - अतिशायिदयामयानि सम्यक्तत्त्वानि - जीवाजीवादीनि यस्येत्यामन्त्रणम् । चन्द्र ! ||२७|| सुकरसुकरमो मां पाहि देवर्षभ ! त्वं
हरसि हरसितद्युत्कीर्तिभृद्वर्द्धमान ! |
*
हृदि सुहृदि सुखानां यः स्थितस्त्वं च चन्द्रा
नन ! जननजरान्तान् भाविनां वारिषेण ! ||२८||
"Aho Shrut Gyanam"

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254