Book Title: Jain Stotra Sanchayasya Part 1 2 3
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah Kapadwanj

View full book text
Previous | Next

Page 222
________________ स्तुतिस्तोत्ररत्नकोषः हे श्रीवर्धमान ! ते-तव शासनस्याहं सदा शिवप्राप्तिभक्तः स्यामिति प्रार्थनायां सप्तमी । चिरं-दुष्प्रसहावधि, रुचिराः-शिवसुखदायित्वेन जगदभिमताः, रुचो-दीप्तयो महिमादिरूपा यस्य । हे शिवश्रीवल्लभ ! दयि-दत्तं दातुमारब्धं वा, भव्यानां श्रेयःकल्याणं शिवं वा येन शासनेन त्वया वा । हे परमपरा मासमवसरणादिर्यस्य । अथवा परमाणि-बहुलकालभावित्वाज्जगज्जनन्या एकत्वाच्च प्रकर्षवन्ति यानि परमतानि, तेषां श्रियो जैत्रेत्यामन्त्रणम् । उदयो-ज्ञानसुखताद्यात्मकता । मुद् हर्षः ॥२४॥ सुकृतिसुकृतिनुत्यं सर्वसीमन्धर ! त्वां _ महति महति सौख्यर्यः शिवे वासमिच्छन् । सहितसहितलक्ष्मी • • • • • • • • • • • • • • • • 'कर्मा द्रागलभेताऽथितं तं ।।२५।। इति पाठां० । सुकृति(न:)पुण्यवन्तो येऽतिशायिविद्वान्सस्तैःस्तुत्यम्। विद्वत्त्वे सत्यपि पुण्यं विना जिनस्तुतेरसम्भवात् सुकृतित्वग्रहः । पूजयति । सौख्यैः सर्वोत्तमे। हितसहिता-पापकर्मपरिहारेण हितानुबन्धा या लक्ष्मी श्रेणी तां इहलोकेऽपि-संसारवासेऽपि वा अमितम्-अप्रमाणं यथा भवत्येवं समिता-समंतात्सामस्त्येन वा इता-प्राप्ता सद्भयोऽर्चाविमल केवलाद्यवस्थायां पूजा येन शिवे वासम् ।।२५। पाठान्तरव्याख्या। शिवरूपे। विदेहस्य-महाविदेहस्य इयं वैदेही सा चासौ भूमिश्च पुंवत्कर्मधारये' [सि० ३।२।५७] इति पुंवद्भावेन वैदेहीति ङीनिवृत्तिः। हे इहर-कामहर शिवरूपे । हितसहितानि निरवद्याजीविकया निष्पापानि, न तु हस्तितापसादिवत्सपापानि कर्माणितपो-ध्यानादीनि यस्य स ॥२५॥ सदतिसदतिशीतिश्रीमहिम्ना त्रिलोक्या महतमहततीर्यः प्राणभाजा प्रदत्त । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254