Book Title: Jain Stotra Sanchayasya Part 1 2 3
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah Kapadwanj

View full book text
Previous | Next

Page 205
________________ ३ त्रिदश-तरङ्गिणी वायुतुल्यतां ॥१५॥ पुंसः सत्कुमुवोल्लासे, सदा नवकलावतः । शिवं शान्ते ! करे स्यात्वत्-सदानवकलावतः ।।१६।। सज्जन कैरवोल्लासे । नव्यचन्द्रमसः । 'त्वदि'ति तव सन्सद्ध त: प्रशस्यो वा (आ) नवः-स्तवः तस्य करणे कलाभाजः । दिनं स्तौमि दिवः पृथ्व्यां, भवदागमहारिणम् । सिद्धान्तं ते च कुन्थोऽन्य-भवदागमहारिणम् ।।१७।। हे कुन्थो ! दिवो देवलोकात् पृथ्व्यां। भव० तवागमनशोभितं दिनं स्तौमीति योगः। अन्येषां कुवादिनां भवदान्हिंसादिमयत्वेन संसारदायिन आगमान् हरति-असत इति करो. तीत्येवंशीलं तव सिद्धान्तं च स्तौमीति योगः ।।१७।। कस्को न क्रियते स्वस्य, भवता नवसादरः । जगन्नाथ ! नरोऽतीव, भवतानवसादर ! ।।१८।। नवे-स्तवे सादरः। भवस्य-संसारस्य, तानवं-तनुतां स्वल्पत्वमिति भावः । ततश्च अभवतानवं भवतानवं क्रियते भवतानवसात् 'व्याप्तौ स्सात् [सि० ७.२-१३० इति सात् प्रत्यये। भवतानवरूपोऽल्पसंसार इत्यर्थः। कस्को न क्रियते भवतेतियोगः । अथवा भवतानवेऽधीनः क्रियते इति 'तत्राधीने' [सि० ७-२-१३२] इति सात्प्रत्यये, तानवाधीन इत्यर्थ: ।।१८।। सूत्वा त्वाऽभज्जगन्मोद-जननी श्रीप्रभावती। या मल्ले ! जयतात् सा ते, जननी श्रीप्रभावती ।।१९।। प्रसूय त्वां । श्रीश्च प्रभा च ते तद्वती ।।१९।। दिष्टमुक्तिप्रदश्राद्ध-मुनिसुव्रतभारती । जीयातं या सतां दत्त, मुनिसुव्रत ! भारती ।।२०।। "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254