________________
३
त्रिदश-तरङ्गिणी
वायुतुल्यतां ॥१५॥ पुंसः सत्कुमुवोल्लासे, सदा नवकलावतः ।
शिवं शान्ते ! करे स्यात्वत्-सदानवकलावतः ।।१६।।
सज्जन कैरवोल्लासे । नव्यचन्द्रमसः । 'त्वदि'ति तव सन्सद्ध त: प्रशस्यो वा (आ) नवः-स्तवः तस्य करणे कलाभाजः । दिनं स्तौमि दिवः पृथ्व्यां, भवदागमहारिणम् ।
सिद्धान्तं ते च कुन्थोऽन्य-भवदागमहारिणम् ।।१७।।
हे कुन्थो ! दिवो देवलोकात् पृथ्व्यां। भव० तवागमनशोभितं दिनं स्तौमीति योगः। अन्येषां कुवादिनां भवदान्हिंसादिमयत्वेन संसारदायिन आगमान् हरति-असत इति करो. तीत्येवंशीलं तव सिद्धान्तं च स्तौमीति योगः ।।१७।। कस्को न क्रियते स्वस्य, भवता नवसादरः ।
जगन्नाथ ! नरोऽतीव, भवतानवसादर ! ।।१८।। नवे-स्तवे सादरः। भवस्य-संसारस्य, तानवं-तनुतां स्वल्पत्वमिति भावः । ततश्च अभवतानवं भवतानवं क्रियते भवतानवसात् 'व्याप्तौ स्सात् [सि० ७.२-१३० इति सात् प्रत्यये। भवतानवरूपोऽल्पसंसार इत्यर्थः। कस्को न क्रियते भवतेतियोगः । अथवा भवतानवेऽधीनः क्रियते इति 'तत्राधीने' [सि० ७-२-१३२] इति सात्प्रत्यये, तानवाधीन इत्यर्थ: ।।१८।। सूत्वा त्वाऽभज्जगन्मोद-जननी श्रीप्रभावती।
या मल्ले ! जयतात् सा ते, जननी श्रीप्रभावती ।।१९।।
प्रसूय त्वां । श्रीश्च प्रभा च ते तद्वती ।।१९।। दिष्टमुक्तिप्रदश्राद्ध-मुनिसुव्रतभारती ।
जीयातं या सतां दत्त, मुनिसुव्रत ! भारती ।।२०।।
"Aho Shrut Gyanam"