________________
त्रिदश-तङ्गिणी
मता श्रेयांसगीर्यस्य, परमागमभासिता ।
नेष्टा स्यानृपता तस्याऽपरमागमभासिता ॥११॥ नृपत्वं, नृपस्य ता-लक्ष्मीर्वा । अपरा-अप्रकृष्टा चक्रीशशक्रादिऋद्धिमपेक्ष्य हीना, या मा-लक्ष्मीस्तस्या गमेन भया-दीप्त्या, सिता-बद्धा। अथवा अपरमस्य-विनाशस्यागम आगमनं यस्यां सा, विनश्वरेत्यर्थः । तादश्या भया सिता । अथवा अपरेभ्यः सेवकलोकादिभ्यो मा गमस्य.भया सिता ॥११॥ नतं ते वासुपूज्योरु-महाऽनेकपराऽजिता ।
राज्यश्रीः श्रयतीहापि, महानेकप-राजिता ॥१२॥ उरवः महा-उत्सवा यस्यां सा । अनेकैः परैर्वरिभिरजिता । हस्तिभिः शोभिता ।।१२।। त्वदस्तु शुभकर्माघ-हृदये विमलाऽऽगमः।
सम स्थेयांस्तदुक्तश्च, हृदये विमलागमः ॥१३॥ अये-शुभकर्म त्वत्तो मम हृदयेऽघहृद् विमलस्य जिनस्य आगमः-आगमनमस्तु इति योगः । निर्मलसिद्धान्तः ॥१३।। हृदि मे तेऽस्तु सिद्धान्तः, सुरसार्थकलापचित् ।
जिग्ये येन स्मरोऽनन्त ! सुरसार्थकलापचित् ।।१४॥
सुरसा-ज्ञानस्य सुखहेतुत्वात्सुखदा-अर्थकलानां (चिद्) विज्ञना यस्मात् । अथवा सुरसानां शूकलापानां चित्-ज्ञानं यस्मात् । अथवा ज्ञातगुणा एवार्था मणिमन्त्रौषधरत्नादयः सुरसाः स्युः इति मतमाश्रित्य सुरसार्थकलापा याचिता। सातता । तादृशी चिद् यस्मादागमात्स तथा। सु० देवसमूहानां कलां-बलमहत्त्वादिरूपामपचिनोति-हापयतीति क्विप् ।।१४।। श्रितं धर्म नमाथा (घा)ब्दे, प्रभजनसमानताम् ।
पान्तं लोकत्रयीं तातप्रभञ्जनसमानताम् ॥१५॥
"Aho Shrut Gyanam"