________________
३०
त्रिदश-तरङ्गिणी यस्य । विश्वाऽभिनन्दनेति पृथग् जिनामंत्रणं वा । (समागमः) आगतवान् ॥४॥ शिवश्री ऽस्य दूरेऽस्ताऽरमते सुमतेहिते ।
सुमते ! यन्मनोऽतीव रमते सुमतेहिते ।।५।। हे अस्ता-अलक्ष्मीक ! । अतिशायि शासने । हितहेतौ हितहेतुत्वादेववा। असुमता-प्राणिना जातावेकवचनम्। ईहिते-वाञ्छिते। अथवा सुः-पूजादौ, जनेषु पूजिताः सुष्ठु वा मता:-सम्मताश्च सत्पुरुषा इत्यर्थः । तैरीहिते ॥५॥ सर्वश्रीवासकृच्छोण-पद्मप्रभसमानते । ये त्वाऽऽर्चन् स्युः सुखः कैश्चित् पद्मप्रभ ! समा न ते ॥६॥
त्वां अपूजयन् ते पुरुषाः कैश्चिच्छक्रादिभिरपि समा न स्युः?। किन्त्वसमानशिवसुखाः स्युरिति भावः ।।६।। ये सुपार्श्वदृशैक्ष्यन्त, भवतापापहारिणा ।
न द्रूयन्ते स्मरेणैते, भवता पापहारिणा ॥७॥ विरज्यस्त्वां भजन्ते गास्ते चन्द्रप्रभवादरं ।
___ इष्टदो मे पदं दत्त्वा, चन्द्रप्रभभवादरम् ॥८॥ सुविधे ! स्तुवतस्ते स्यात् पदतामरसं सदा ।
स्तुत्यस्य करगा श्रेयः-पदताऽमरसंसदा॥९।। अमरपर्षदा स्तुत्यस्य ते पदतामर स्तुवतः श्रेयःपदता करगा स्यादिति योगः ॥९॥ कः स्तवे शीतल ! प्राज्ञैः, सरतिस्तव ने हिते।
स्तोतुस्ते हि हरेर्वाणी, सरति स्तवने हिते ॥१०॥ - प्राज्ञैरीहिते वः स्तवे कः पुमान् सरती-रतिभाग न स्यादिति योगः । हिर्यस्मात्ते-तव स्तोतुः विशिष्टपदप्राप्तौ सत्यां । स्तवने हिते-हितहेतौ हरेरिन्द्रस्य वाणी सरति-प्रसरतीति ।।१०।।
"Aho Shrut Gyanam"