________________
त्रिदश-तरङ्गिणी
दिष्टानि-आदिष्टानि दत्तानि वा मुक्तिप्रदानि श्राद्धानां मुनीनां च सु-शोभनानि (व्रतानि) यया सा चासौ भारती च । भा च रतिश्च ते ॥२०।। जीयात्तेऽस्योदितश्राद्ध-मुनिसुव्रतभारती । पूता यज्जनुषा पृथ्वी, मुनिसुव्रत ! भारती ॥२१॥
इति पाठान्तरम् । ते-तव, कीदृशस्याऽस्य भरतक्षेत्रसम्बन्धिनी ॥२१॥ श्रियोऽर्थी स नमे ! न स्यान् महीनविभवात्मनः ।
यस्याराध्यः शिवाय त्व-महीनविभवात्मनः ॥२२॥ महीनेब्धिवनां (?) (महीनानां) पृथ्वीशानां विभव आत्मास्वरूपं यस्याः श्रियः । हे अहीनविभो ! सम्पूर्णजगत्त्रयैश्वर्यवत्त्वात् सम्पूर्णस्वामिन् । आत्मनो-जीवस्य ।।२२।। तुभ्यं नेमेऽखिलाङगिभ्यो, महागम ! नमो हित ! ।
राजमत्यादिभिविश्व-महागम ! न मोहित ! ॥२३॥
अखिलाङ्गिभ्यो हित ! । अनन्तार्थगम-नयादिभिः सर्वातिशायित्वान्महानाऽऽगमः-सिद्धान्तो यस्य । आदिशब्दात् पितृमातृभ्रातृजायादिरत्नमणिस्वर्णगजतुरगराज्यादिभिः । मोहनविषये 'न तारिसं दुत्तरमत्थि लोए जहित्थि' इत्यागमवचनात् कलत्रस्य प्राधान्याद् राजमत्यादिनिर्देशः। विश्वेषां विश्वानां वा जन्मादिभिर्महानामुत्सवानामागमो यस्मात् ॥२३॥ यः सतां ददतेऽनन्त-सारं श्रेयोऽयशोभितः ।
स्तुवे पार्वजिनस्यास्य, सारं श्रेयोयशोभितः ॥२४॥
अनन्तः सारो-बलं यस्मिन् । श्रेयो-मोक्षं, अयेन-शुभदैवेन तीर्थकृत्समद्धिनिर्वर्तकेन जिननामकर्मणा शोभितं (त:)। सारंसर्वेभ्योऽतिशायि, श्रेयोरूपं श्रेयोहेतुश्च यशः ॥२४॥
"Aho Shrut Gyanam"