________________
३४
त्रिदश-तरङ्गिणी
श्रीवीरावेदिते येन, भावतः समयस्ततः ।
शिवाप्तौ भवितास्याशु भाबतः समयस्ततः ।।२५।। ततो-विस्तीर्णः प्रकरणादिभिः। समयोऽवसरः। ततः सिद्धान्तात् ॥२५॥ स्तोता सीमंधर ! स्यात्ते, कल्याणकमलालयः ।
तं नार्दन्ते च विश्वेष्ट-कल्याणकमलालयः ॥२६॥ ___ 'तं' स्तोतारं न बाधन्ते । विश्वानां विश्वेषां वा इष्टानि सुखहितोपकारित्वात्कल्याणकानि-अवतार-जनि-व्रत-केवलोत्पत्ति रूपाणि चत्वारि यस्य । पञ्चमस्याऽजाताऽदृष्टत्वेनेष्टानिष्टविचारानहत्वात् । बद्धकर्माणि मला: अशुभकर्माणि वा, योगत्रयकालुष्यरूपा वा मलाः, तेषामालयः ।।२६।। स्तुवते यं जिनं भक्त्या, प्रसिद्धकुशलालयः । लभेयं तं स्तुवन् श्रेयः, प्रसिद्धकुशलालयः ॥२७॥
साधारणस्तुतिरियम् । विख्यातविज्ञश्रेणयः । प्रार्थने सप्तमी । मोक्षं । प्रसिद्धानांस्वायत्तीभूतानां कुशलानां-मङ्गलानामालयः-पदम् ।।२७।। त्वयि भक्तं त्रिलोकीस्थ ! श्रेयोराजि दमोदय ! ।
जिनवर्गेष्टदानान्मां, श्रेयोराजिद ! मोदय ।।२८।। चतुर्विंशतिजिन-सप्ततिशतजिनपट्टकादौ देववन्दने युगपद् बहुजिनस्तुतिरियम् ।
त्रिलोकीगतशाश्वताशाश्वतचैत्यवन्दने आमंत्रणमिदं पाठश्चायम् । पुरस्थजिनवर्गवन्दने तु त्रिलोकीश इत्यपि पाठः । श्रेयसो-मोक्षस्य राजि-स्वामिनि । दमस्य-कषायेन्द्रियसंवररूपस्योदयो यस्य यस्माद्वा । अथवा दमेन उद्-उच्चैः अय:-शुभदैवं यस्य यस्माद्वा । कल्याणश्रेणिद ! ॥२८॥
"Aho Shrut Gyanam"