________________
त्रिदश-तङ्गिणी जयर्षभविभो ! वर्द्धमान ! चन्द्रानन ! प्रभः ।
वारिषेण ! सुरैः पूज्य-मान ! चन्द्राननप्रभः ॥२९॥ नन्दीश्वरपट्टादौ देववन्दने शाश्वतजिनचतुष्टयस्तुतिः।
प्रकृष्टा भा यस्माद्यस्य वा, प्रकर्षेण भातीति वा डः । चन्द्रवदाननप्रभा-शोभा यस्य ॥२९॥ देहि त्वमिष्टशर्म श्रीपुण्डरीकप्रभो ! मम ॥३०॥
श्रीपुण्डरीकस्तुतिः ॥ सिद्धिश्रिया-मुक्तिलक्ष्म्या निवासायेति भावः । पुण्डरीकप्रभःकमलसम: ॥३०॥ सदा श्रीगौतमाऽऽनन्दि-विश्व ! श्रेयोमहालय ! ।। श्रयन्ति त्वां श्रितान् प्रेयो-विश्वयोमहालयः ॥३१॥
श्रीगौतमस्तुतिः । आनन्दि-सदुपदेशलब्धिप्रभावाऽतिशयादिभिः सर्वेष्टसाधनात् प्रमोदवद्विश्वं यस्मात् । श्रेयो-मोक्ष एव महानालयो यस्य । श्रीगौतम ! 'त्वां श्रितान्' त्वत्सेवकान्, प्रेयसां-अभीष्टानां, श्रेयसांभद्राणां,महानामुत्सवानां चाऽऽलयः श्रेणयः श्रयन्तीति योगः।।३१।। सिद्धानन्तचतुष्कात्मन् ! सदा शुभवनोदक !।
देहि श्रीसिद्ध ! मे शर्म सदाऽऽशु भवनोदक ! ॥३२।। । श्रीशाम्ब-प्रद्युम्न-रथनेमि-मरुदेवा-राजीमत्यादिश्रीसिद्धस्तुतिः।।
हे कल्याणवनजल ! सत्-सत्यं पारमार्थिकं मोक्षरूपमिति यावत् । हे संसारनोदक !॥३२॥
देहि मे सिद्धचक्रेष्टं, सदा नवपदोदित!। जिनैरनन्तशर्मात्मन् ! , सदानवपदोदित ॥३३॥ सिद्धचक्रस्तुतिः ।
__ हे सिद्धचक्र-सिद्धवर्ग ! सदा-नित्यं मे-ममेष्टं देहीति योगः । नवभिः पदैर्जीवाजीवपुण्यपापादिभिः सम्यक्प्ररूपणानुष्ठानादि
"Aho Shrut Gyanam"