________________
३६
त्रिदश-तरङ्गिणी
गोचरीकृतैरिति भावः । उदितं-उदयं प्राप्तपूर्वत्वाच्छिवलक्षणं पदं तत्रोदित। हे जिनरुदितभाषितस्वरूपेति सम्बन्धः । सताम् आनवस्य-स्तवस्य पारदेति (पदेति) गणधरपट्टादौ बहुसिद्धवन्दने स्तुतिरियम् कैश्चिदालिख्य स्तूयमानस्य सिद्धचक्रस्य वा । तत्पक्षे तु हे नवभिः पदैरहत्सिद्धाचार्योपाध्याय-साधु-दर्शन-ज्ञान-चारित्र-तपोरूपैरुदित-उदयप्राप्तः । अनन्तं शर्म आत्म-स्वरूपं यस्य स अनन्तशर्मात्मा जन्तुर्यस्मात् । सताम् आनवस्य-स्तवस्य पद ! हे उदितभाषित जिनैरिति सम्बन्धः ॥३३॥ अर्हन्तोभिमताः सुखश्रियः, श्रेयोऽनन्तरमोदिताशयाः। सर्वे मे ददतां बधैः स्तुताः, श्रेयोऽनन्तरमोदिताशया ॥३४॥
श्रेयोभिः-कल्याणैः कृत्वा । अनन्तरं-निरन्तरं मोदिताशया यश्चित्तान्यर्थात्सुखश्रीमतां याभिः सुखश्रीभिस्ताः । अथवा श्रेयो० आशया यैरहद्भिस्तेऽर्हति शसन्तं जसन्तं वा । श्रेयो-मोक्षस्यानन्तरमायामुद्गताभिलाषेण बुधैः स्तुता इति योगः ॥३४॥
स्वसेवकान् यः कुरुते ददत् सतां, महागमं ज्ञानमतप्रभावतः । शिवप्रदं तं जितकल्पपादपं, महागमं ज्ञा ! नमत प्रभावतः ।३५।।
यो महागमोऽनन्तार्था (र्थ) गमनयादिभिः सर्वातिशायित्वान्महान सिद्धान्तो जैन इत्यर्थः । सतां महागम-उत्सवागमनं ददत् । स्वसेवकान् ज्ञानं-केवलादि, मतानीष्टानि, प्रभाश्च द्रव्यभावाभ्यां दीप्तयस्तद्वतः कुरुते । हे ज्ञा-विज्ञास्तं प्रभावतो-महिमतो जितकल्पपादपं महागमं नमतेति योग: ।।३५।। अत्र पाठान्तरमपि
स्वसेवकान् यः कुरुते जगन्ति सन्महागमो ज्ञानवतः प्रभावतः । ददात्वयं मेऽतिसुरद्रुमः शिवं,महागमो ज्ञानवतः प्रभावतः।।३६।। इति
अथ पाठान्त रव्याख्या-यो महागमः सतां महागम-उत्सवाऽऽगमोऽथवा सन्-प्रशस्तो महागमो यस्मात् स तथा । स्वसेवकान्
"Aho Shrut Gyanam"