________________
त्रिदश-तरङ्गिणी
३७
ज्ञान-विदुषः, जगन्ति स्वोपदेश-महिमादिभिरवतः पालयतोऽत एव बहिरन्तश्च प्रभावतो-दीप्तिभाजश्च कुरुते । स प्रभावतो-महिमतोऽतिसुरद्रुमो मे ज्ञानवतः केवलरूपज्ञानभाजः शिवं ददात्विति सार्थः सम्बन्धः ॥३६।। अथाऽत्र तृतीयोऽपि उत्तरार्द्धपाठो यथा
स्वसेवकान् यः कुरुते जगन्ति सन्महागमो ज्ञानवत: प्रभावतः । करोतु सोऽस्मान् शिवसङ्गिनो निजान्, महागमो ज्ञानवतः
प्रभावतः ॥३६।। इति । पूर्वार्द्धव्याख्या प्राग्वत् । उत्तरार्द्धस्य त्वियं-महागमो निजान्, प्रभावतो-महिमतोऽस्मान् ज्ञानवत. शिवसङ्गिनश्च करोत्विति ।। शास्त्रार्णवे सकलवादिजयश्रियाऽऽप्य, वाग् देवते समुदिता कुशलानि कामम् । तेषां शिवाय दधतां विनुवन्ति ये त्वां, वाग्देवते ! समुदिताः कुशला निकामम् ॥३७॥ इति स्तुतयः
तेषां-कुशलानां शिवाय-मोक्षाय, काममभिलाषं दधतां वाक सकलवादिजयश्रिया समुदिता-सङ्गता, कुशलान्याप्य शास्त्रार्णवे देवते-'दिवृड् देवने' इति धातोः प्रयोगादस्खलिता क्रीडतीत्यर्थः । हे वाग्देवते ! ये कुशलाः समुदिताः-सहर्षाः निकाममत्यर्थं त्वां विनवन्ति-स्तुवन्तीत्यर्थः ।।३७-३८।। एवं ये मतिमान् स्तुते जिनवरान् भक्त्या समग्रान् क्रमात्,
शक्रालीमुनिसुन्दरस्तवगणैतक्रमाम्भोरुहान् । सर्वाभिष्टसुखोच्चौरविरतं स्फर्जप्रमोदाद्वयो । मोहद्वेषिजय श्रिया स लभते श्रेयोऽचिराच्छाश्वतम्
॥३९।। अनेन स्तवनमपि ।
"Aho Shrut Gyanam"