________________
त्रिदश - तरङ्गिणी
इति वर्तमानचतुर्विंशतिजिनानां श्रीसीमन्धरस्य साधारणवृत्त्या जिनस्य युगपद् बहुजिनानां शाश्वतजिनचतुष्टयस्य सिद्धस्य सिद्धचक्रस्य च मङ्गलशब्दाऽर्थाऽक्षरार्थयम कैर्वर्द्धमानाश्च स्तुतयः
३८
।। स्तवनम् ।।
इति युगप्रधानावतार-तपाबृहद् गच्छाधिराज - श्रीदेवसुन्दरसूरि श्रीज्ञानसागरसूरि श्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यङ्के श्रीजिनस्तुतिस्तोत्ररत्नकोशे तृतीये स्तुतिरूपे प्रस्तावे बहुविधस्तुतिरत्नगर्भा पेटा || ग्रन्थाग्रम् ॥५१॥
एवं ।। ३८-३९ ।। इति श्रीप्रभाव कपुरन्दर श्रीमुनिसुन्दरसूरिगुरुविरचितलघुस्तुत्यवचूरिः ॥ ग्रन्थानम् ॥८१॥ सुकृत सुकृत लभ्योद्यज्जयश्रीजयश्री
वृषभ ! वृषभभूभृद् ब्रह्मधामाऽऽप्तधामा । जनय जनयशः श्रीमद्विधाने विधाने,
कुशल ! कुशलसिद्धी में प्रभावस्वभावः ॥ १॥ जनयजनयशोभृत्शाश्वतानन्दतानं कुशलकुशलभूर्मे दत्तभावप्रभावः । सुष्ठु विधिना कृतैः- पुण्यानुबन्धिभिरित्यर्थः । सुकृतै:पुण्यैर्लभ्या उद्यन्तो (ती) बाह्यान्तर्वैरिजयभवा जयश्रीर्यस्य । ब्रह्मा तपोज्ञानयोगाध्यात्मादिषु । धाम गृहतेजःस्थानप्रभावजन्मादिषु । ब्रह्मेव- मोक्ष एव धाम- गृहं यस्य । आप्तं धाम - तेजः प्रभावोवा येन । जनानां या यश श्री मुदांविधाने कुशल- दक्ष !, कुशलानि भद्राणि, सिद्धिश्चाणिमाद्या मुक्तिर्वा । दत्तो भावानां द्रव्यादीनां प्रभावो येन । यथा द्रव्यस्य बलिकणादे रोगापहारित्वादि, जन्मादिकल्याणभूमेः पावित्र्यतीर्थत्वादि, कालस्य कल्याणादिकदिनादेः पर्वत्वमहिमादि, भावानां जिनाङ्गकृष्णादिवर्णानामपि सौभाग्यादि ॥१॥
"Aho Shrut Gyanam"