________________
त्रिदश-तङ्गिणी
३९ अथ द्वितीयपाठे-जनानां यशःपोषकशाश्वतानन्दस्य-मुक्तिसुखस्य तानं-विस्तारं, निपुणभद्र भूमिः-पूजादिकदक्षानां मङ्गलदायीत्यर्थः ।। जयविजयविधाता गर्भवासेऽपि मातुः,
सुरस-सुरसदो-मुद्दायिवाणीविलासः । मदनमदनदीशे कुम्भभूर्भद्रभूमिः,
भवतु भवतुदर्शो मे शिवाया जितोऽर्हन् ।।२।। जय:-स्वदेशे सर्वोत्कर्षः, विजयः परदेशे, 'विधाते'ति तृन्नन्तं शीलार्थे । सुरसा:-पञ्चत्रिशद्वाग्गुणोपेतत्वादत एव सुरपर्षदां प्राधान्य निर्देशादुपलक्षणाद्वा नरतिरश्चां च मुदो-हर्षस्य दायिनो वाग्विलासा यस्य । भवं-संसारं तुदतीति भवतुदर्चा पूजा यस्य ।। रमय रमयतो में त्वन्नुतौ चित्तमहन्,
भवदभवदमेऽपि स्याद्यतोऽस्माद्विशुद्धः । चरणचरणयोगः शम्भवेशाऽथ तस्मा
दरतिदरतिरस्कृनिश्चितं मुक्तिशर्म ॥३॥ त्वन्नुतौ चित्तं रमयतो मे भवदभवदमेऽपि चित्तं मे विरमयेति योगः । भवन्-जायमानोऽभवोऽपुनर्भवो यस्मात् स चासौ दमश्च तस्मिन् । अस्मात् दमात् । चरण-चारित्रं, तस्य चरणंआचरणं तस्य योग:-सात्म्यमिति यावत् । तस्माच्चरणचरणयोगात् मुक्तिशर्मं द्विधा इह परत्र च । इह मुक्तिनिःसङ्गता । तच्छर्म यथा वर्षपर्यायस्याऽनुत्तरदेवशर्म । उक्तं च-'जे इमे अज्जत्ताए समणा' इत्यादि । एतत्सङग्रहगाथा- 'वण १ भवण २ ऽसुर ३ गहगण ४ चंदिमसूराण ५ दु ६ दु ७ दु ८ दु ९ च ऊण १० । गेविज्ज ११ णुत्तराण य १२ कमेगमासाइ सुहि साहू ।।१।। इति भग० श० १४ उ० ९ । अत एव अरतिदरतिरस्कृत्, परलोके च मुक्तिशर्म-शिवशर्मं ।।३ ।
"Aho Shrut Gyanam"