________________
त्रिदश - तरङ्गिणी
कलित ! कलितमोहृत् केवलेनाऽभिनन्दाऽ-
समद ! समदयालो ! पाहि मां मोहशत्रोः । शमित ! शमिततीश ! त्वं शिवस्येष्टमद्रा
कर ! सुकर सुखौघाऽपास्तदोषं च कुर्याः || ४ || हे केवलेन ज्ञानेन कलित !, हे अभिनन्दन !, हे असमद - हे मदरहित ! हे समदयालो - सर्वेष्वपराद्यविभागेन दयावत् ! हे शिवराय शं- सुखमित प्राप्त !, हे इष्टकल्याणाऽऽकर !, सुकरा:सुसाधात्सुखौघा यस्य यस्माद्वा ||४||
"
करति करतिभावान् त्वन्नुति नंव मोहोऽ
सुमति सुमतिनेतर्दातुमीष्टे भवधम् । समयसमययोगी तम्मुदा तां विदध्या
४०
मसममसमदस्य ब्रह्म मे सापि देयात् ॥५॥
के- सुखे, रतिभावाद् - अभिलाषादित्यर्थः । करति करोतेः शतृप्रत्यये भ्वादिपाठबलात् शवि च सूजति त्वन्नुति । असुमतिप्राणिनि । भवपरम्पराम् । समया सङ्केतार्थपरिज्ञातेत्यर्थः । तस्मात्कारणात् तां त्वन्नुति, विदध्यामिति प्रार्थने सप्तमी । 'साप' त्वन्नुतिः । ब्रह्म - शिवं, असमं- अनन्तसुखज्ञानाद्यात्मकत्वेन वैशेषिकादिकल्पितपाषाणादिकल्प मुक्तीनामसदृशम् ||५||
धरज ! धर जयो त्वां मां स्वधर्मोऽथितश्री
करण ! करणमाद्यद्दन्तिदन्तौ सुदक्ष !।
सुरम ! सुरमहेशस्तुत्य ! यत् श्रेयसोsहं,
पदमपदम तान्तिर्नाथ पद्मप्रभ ! स्याम् ||६|| हे धरभूपज ! त्वं जयी - रागादिजयवान्, मां स्वधर्मे सुरम- सुष्ठु अतिशायिनी प्रातिसुराणां महान्त ईशा:-अच्युतेन्द्रा
धर - स्थिरीकुविति भावः । हे हार्यादिरमा यस्य यस्माद्वा ।
"Aho Shrut Gyanam"