________________
त्रिदश- तरङ्गिणी
४१
दयस्तैः स्तुत्य ! श्रेयसोऽत्र कल्याणस्य परत्र मुक्तेश्च । अपगता
दमे तान्तिः - खेदो यस्य ||६||
ददददररमाली हॅज ! पृथ्वीज ! पृथ्वी
जय जयदमितद्धिः सत्प्रतिष्ठः प्रतिष्ठः ।
कनकनवदपुः श्रीभासमानोऽसमानो,
नवनवरसुरोद्यद्भाः सुपार्श्वः सुपार्श्वः ॥७॥
अदरा-' इहपरलोये 'त्यादिसप्तभयरहिता, अहमिन्द्रसुर - शिवसम्बन्धिनी रमाश्रेणी हे अज-जन्मादिरहित! जयन्ती सर्वोत्कर्षिणी, अमिता अनन्ता ऋद्धिर्ज्ञानसुखातिशयादिकाव्यस्य यस्माद्वा । सतीपूजिता प्रशस्या वा । प्रतिष्ठान् नृपात् पितृत्वेन प्रतिष्ठा यस्य । अथवा सती - प्रतिष्ठस्य पितुरिन्द्रादिस्तुत्यादिरूपा प्रतिष्ठा यस्य । भगवत्पुत्रप्रभावेनैव पित्रोः पूजाद्याप्तेः । प्रातिहार्यातिशयादिभिरनन्यसदृशः । अथवा असमो- देशना - मारिरोगापहारित्वादिभिः शिवमूलबोधिदानादिभिश्च त्रिभुवनोपकारित्वादसमोऽनन्यसदृश अनं जीवितं यस्य । नवनेन - स्तवनेन वराः सेवांद्यर्थागता ये सुरास्तेषामुद्यती [भिः ] भाः । शोभनं पार्श्व - समीपं यस्य ॥७॥ लसदलसदयाब्धेर्यस्य चन्द्रप्रभ ! स्या
दमलदमलयात्ते ध्यानतोऽपोष्टसिद्धिः ।
समुदिसमुदिरश्रीवल्लिषु त्वं सितांशोः,
-
करनिकर निभाङगस्तिष्ठ चित्ते सदा में ||८||
यस्य ते तव ध्यानतोऽपीष्टसिद्धिः स्यात्, स त्वं मम चित्ते समुदि अर्थितलाभात् सहर्षेष्टध्यानगोचरी भवेति योगः । एवं प्रार्थनायां भवेति पदस्य विशेषणद्वारेण हेतुमाह - 'लसे' त्यादि । लसन्ती अलसेष्वपि-तपोऽनुष्ठानाद्यनुद्यमेष्वपि दया तस्या अगाध - त्वादिनाऽव्धिरिवाब्धिस्तस्य । साभिप्रायं चैतत् । यत एव लसद
"Aho Shrut Gyanam"