________________
४२
त्रिदश-तरङ्गिणी लसदयाब्धिरत एव ध्यानमात्रादऽलससाध्यादिष्टं दत्से, अत एद चित्तस्थितिप्रार्थनेति । कीदृशाद् ध्यानादित्याह-'अमले'त्यादि । अमले-सम्यग् ज्ञानादिकारणसर्वसाम्यादिकार्यविशुद्धे दमे-इन्द्रियनोइन्द्रियसंयमनरूपे लयो यस्माद् ध्यातुरिति भावः । एतेन भगवतोऽमलदमलयात्मकत्वं ध्यानाद् ध्यातरि भवति । तथा चोक्तंवीतराग यतो ध्यायन् वीतरागो भवेद्भवी। इलिका भ्रमरी रूपं ध्यायन्ती भ्रमरी यथेति ॥ एतेन कवेरिष्टा मुक्तिस्तदुपायश्च दमलयात्मकं जिनध्यानमिति कवेरभिप्रायो ज्ञायते । मुदिरो मेयः दधति दधति मुक्ति भक्ततां ये त्वयोशे,
नमति न मतिमान कस्तान क्रमाद्वासवोऽपि । भवति भवति हि दाग भक्तिलेशोऽपि क्लुप्तः,
सुविधि सुविधिनाथाऽचिन्त्यचञ्चत्फलाय ॥९॥ त्वयि मुक्ति दधति-संश्रयति ये-पुरुषा भक्ततां दधतिबिभ्रत इतियोगः । त्वयि 'सुविधी'ति शोभनो विधिराशंसादिरहित यस्मिन् करणे इति क्रियाविशेषणम् ।।९।। सदम ! सवमतान्तर्वैरिजेता यतः स्यां,
विशदविशदनन्तज्ञानवान् शीतलाईन् । सुरव-सुरवधूभिः स्तुत्य ! पात्रं गुणाना
ममद ! मम दयाब्धे ! देहि तां योगशुद्धिम् ॥१०॥ हे सदम ! । सतां-उत्तमानामभिमता येऽन्तर्वेरिण:-काम १ क्रोध २ मद ३ मान ४ लोभ ५ हर्षा ६ दिरूपारिषड्वर्गात्मानस्तेषां जयनशील: सन् । विशदं सकलावरणक्षयात्, विशन्-जीवमध्ये तादात्म्यभावेन परिणमदनन्तज्ञानं केवलज्ञानं तद्वान् । यतो योगशुद्धिः स्यामिति योगः । अष्टमदरहित !। योगस्य मनोवाक्कायरूपस्याष्टाङ्गस्य वा शुद्धिम् ।।१०।।
"Aho Shrut.Gyanam"