________________
त्रिदश-तरङ्गिणी
वरदं ! वरदयां त्वं मित्र हे चित्त ! कृत्वा,
भवविभवविधानेष्वेकहेतो ! मयि द्राक् ।
कलय ! कलय भक्ति श्रेयसीशे सुखश्री
सति लसति नित्या यन्मयि श्रेयसीष्टा ॥११॥
,,
वरं वाञ्छितं ददतीति वरदं चित्तसम्बोधने हे वरद वरापरिणामहिता या दया तां मयि कृत्वेति योगः । भवस्य - संसारस्य, विभवस्य - अपुनर्भवस्य च प्रसन्नचन्द्रादिदृष्टान्तैरद्वितीय कारण ! । हे कलय- सुखलय !, यतः सुखलयित्वमतः श्रेयसि स्वामिनि भक्ति कलयेति । अत्र हेतुहेतुमद्भावो ज्ञेयः । यद्यस्मात्कारणामयि श्रेयसि - मोक्षे लसति - अनन्तज्ञान-वीर्यादिभिर्द्योतमाने सति शाश्वती इष्टा सुखश्री सतीति योगः ॥११॥ हितसहितसदुक्तीर्यस्य कुर्युः सुराणा -
मतनुमतनुतीनां संततीनित्यमीशाः ।
महत महततश्रीहेतुमब्धि महिम्ना
मुदितमुदितचित्तास्तं बुधा ! वासुपूज्यम् ॥१२॥
हितसहिता - हितफलाः, सत्य:- सद्भ ूता उक्तयो यासु ताः । अतनूनि मतानि याभ्योऽथवा अतन्व्यो- गुर्यो मता-अर्चिता या नुतयस्तासां सन्ततीर्यस्य सुराणामीशाः कुर्युरिति योगः । अर्चत | उत्सवः । उदितं मुदितं - भावक्तप्रत्ययान्तत्वाद् हर्षो यस्मिन् ईदृशं चित्तं येषां बुधानां ते तथा ॥१२॥
तुहिन तुहिन रोची रोचिषस्ते वृषानो
४३
धवलधवल ! येयुः कीर्तयोऽपि त्रिलोकीं ।
विमल ! विमलयातश्चित्तमेतत् प्रभुर्मे,
मलिनम लिनवद्युद्द विकल्पोद्भवाधैः ॥१३॥
"Aho Shrut Gyanam"