Book Title: Jain Stotra Sanchayasya Part 1 2 3
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah Kapadwanj

View full book text
Previous | Next

Page 211
________________ त्रिदश - तरङ्गिणी इति वर्तमानचतुर्विंशतिजिनानां श्रीसीमन्धरस्य साधारणवृत्त्या जिनस्य युगपद् बहुजिनानां शाश्वतजिनचतुष्टयस्य सिद्धस्य सिद्धचक्रस्य च मङ्गलशब्दाऽर्थाऽक्षरार्थयम कैर्वर्द्धमानाश्च स्तुतयः ३८ ।। स्तवनम् ।। इति युगप्रधानावतार-तपाबृहद् गच्छाधिराज - श्रीदेवसुन्दरसूरि श्रीज्ञानसागरसूरि श्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यङ्के श्रीजिनस्तुतिस्तोत्ररत्नकोशे तृतीये स्तुतिरूपे प्रस्तावे बहुविधस्तुतिरत्नगर्भा पेटा || ग्रन्थाग्रम् ॥५१॥ एवं ।। ३८-३९ ।। इति श्रीप्रभाव कपुरन्दर श्रीमुनिसुन्दरसूरिगुरुविरचितलघुस्तुत्यवचूरिः ॥ ग्रन्थानम् ॥८१॥ सुकृत सुकृत लभ्योद्यज्जयश्रीजयश्री वृषभ ! वृषभभूभृद् ब्रह्मधामाऽऽप्तधामा । जनय जनयशः श्रीमद्विधाने विधाने, कुशल ! कुशलसिद्धी में प्रभावस्वभावः ॥ १॥ जनयजनयशोभृत्शाश्वतानन्दतानं कुशलकुशलभूर्मे दत्तभावप्रभावः । सुष्ठु विधिना कृतैः- पुण्यानुबन्धिभिरित्यर्थः । सुकृतै:पुण्यैर्लभ्या उद्यन्तो (ती) बाह्यान्तर्वैरिजयभवा जयश्रीर्यस्य । ब्रह्मा तपोज्ञानयोगाध्यात्मादिषु । धाम गृहतेजःस्थानप्रभावजन्मादिषु । ब्रह्मेव- मोक्ष एव धाम- गृहं यस्य । आप्तं धाम - तेजः प्रभावोवा येन । जनानां या यश श्री मुदांविधाने कुशल- दक्ष !, कुशलानि भद्राणि, सिद्धिश्चाणिमाद्या मुक्तिर्वा । दत्तो भावानां द्रव्यादीनां प्रभावो येन । यथा द्रव्यस्य बलिकणादे रोगापहारित्वादि, जन्मादिकल्याणभूमेः पावित्र्यतीर्थत्वादि, कालस्य कल्याणादिकदिनादेः पर्वत्वमहिमादि, भावानां जिनाङ्गकृष्णादिवर्णानामपि सौभाग्यादि ॥१॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254