Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala
View full book text
________________
९६
श्रीमुनिसुन्दरसूरिविरचिता
लसन्ति तेषां गणरत्नसिन्धौ मुनीन्द्ररत्नानि महाप्रभाणि ।
क्षमाधराणामपि मौलिमाला
शोभाखिलाशासु विधीयते तैः ॥ १८ ॥ ॥ तथा हि ॥ श्रीदेवशेखरगणिप्रथिताभिधानाः श्रीवाचकावलिशिरोमुकुटायमानाः । तेषां विशुद्धगुणसंयमभासमानाः
शिष्या जयन्ति विगलत्कलिशत्रुमानाः १९
शिष्यस्तदीयोऽयमपीति मन्यते श्रीवाचकेन्द्रेष्वगुणोऽपि मादृशः ।
ग्रहप्रभोः पुत्रइति ग्रहावलौ
न पूज्यते पङ्गुरपीह किं शनिः ॥ २० ॥ अहो तेषां कराम्भोजवासानां सुप्रभावता । जातो यैमौलिमैर्योग्याप्यहकं मुनिसुन्दरः ॥ २१ ॥ श्रीश्रुतसुन्दरवाचकवर्याः श्लाघ्या न कस्य गुणनिधयः यद्गीः स्पर्द्धापापान्मन्ये श्वभ्रे सुघापप्तत् ॥ २२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122