Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 110
________________ गुर्वावली। जानाना गुरुविहितं स्खलिते शकटालजन्मनो दण्डं। गुप्तधना विद्याढ्या बहवः सिद्धाश्च सन्त्यत्र ॥५०॥६७ किंवाच्यं कविसम्पदि बाला अपि यत्कवित्वगुणललितैः बुधगुरुकविभिः स्पर्दागर्दै गच्छेऽत्र बाभजति ॥५१॥ किं बाणः को मुरारि. ने कविकुलकलः सोऽचलो नाऽमरो वा नाश्वासः कालिदासे विलसति न गिरां चाऽपि हर्षे प्रकर्षः। भोजः सौजःप्रभो नो न च हरति मनो भारवि व माघः । प्रेक्ष्यन्ते ऽस्मिन् विचित्रा विशदमतिजुषःशंपुषश्चेत् कवीन्द्राः॥५२॥८॥ अथ प्रभावककवित्वानि । अत्र खप्रतिभाप्रकर्षपदवीप्रास्तप्रवीणप्रभा बुध्वा पारगतागमेष्ववितथं सूक्ष्मार्थसार्थप्रथाम् । तत्त्वज्ञानलसत्प्रदीपनिहतध्वान्ताभमिथ्याधियोऽनूचानादिमुनीश्वराःप्रवचनप्रावीण्यमाषिभ्रति ५३।१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122