Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 118
________________ गुर्वावली | १०९ विलसन्ति राजहंसा यावत् श्रीसङ्घलोकमधुपाश्च । दुष्प्रसहान्ता तावत् सन्ततिरेषां चिरं जयतु ॥ ९० ॥ युगोत्तमानां गुणसिन्धुबिन्दूनादाय वाणीति कृता पवित्रा । मयार्जितं यत्किल तेन पुण्यं ततोऽस्तु मे ज्ञानचरित्रशुद्धिः ॥ ९१ ॥ आमूलतः सुविहितावलिमौलिमौलिश्रीमत्तपागणनभोऽर्कगुरूत्तमानाम् । श्रुत्वा गुरुप्रभुमुखाद्रथितेति किंचि - दैतिह्यपङ्किरमला गुरुगच्छभक्त्या ॥ ९२ ॥ रसरसमनुमितवर्षे १४६६ मुनिसुन्दरसूरिणा कृता पूर्व म् मध्यस्थैरवधार्या गुर्वालीयं जयश्री ॥ ९३ ॥ प्रायो गुरूणां मुखतोऽधिगम्या ऽन्यतोSपि किंचिच्च विनिर्मितेयम् । यच्चाऽत्र किंचिद्वितथं बुधैस्त च्छोध्यं च मिथ्याऽस्तु च दुष्कृतं मे ॥९४॥ जगत्त्रयख्याततपागणस्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122