Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 119
________________ श्रीमुनिसुन्दरसूरिषिरचिता शाखास्तुतेयं वृहती मयेति। किञ्चिच्च लघ्वी सकला अपीमाः श्रीवीरमार्गानुगमा जयन्तु ॥१५॥ मूलं यस्य जिनेश्वरो गणभृतां स्कन्धोपमं मण्डलम् शाखाः सन्ततयस्ततश्च यतीनां साध्व्यःप्रशाखाः पुनः। श्राद्धाः पत्रगणाश्च मञ्जरितुलारूढाश्च सुश्राविकाः सर्वाभीष्टफलप्रदः स जयति श्रीसङ्घकल्पद्रुमः॥४९६॥ ___इति श्रीयुगप्रधानावतारश्रीमत्तपागच्छाधिराजवृहद्च्छनायकपूज्याराध्यपरमाप्तपरमगुरुश्रीदेवसुन्दरसूरिंगणराशिमाहिमाऽर्णवानुगामिन्यां तद्विनेयश्रीमुनिसुन्दरगणिहृदयहिमवदवतीर्णश्रीगुरुमभावपद्मादप्रभवायां श्रीमहापर्वाधिराजश्रीपर्युषणापर्वविज्ञप्तित्रिदशतरङ्गिण्यां तृतीये श्री गुरुवर्णनस्रोतसि गुर्वावलीनाम्नि महाहृदेऽनभिव्यक्तगणना एकषष्टिस्तरङ्गाः॥ सम्पूर्णश्वायं श्रीगुर्वावलीनामा महाइदः । इतिवृहत्तपागच्छश्रीगुर्वावली वृहती श्रीमुनिमुन्दरसूरिकृता। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 117 118 119 120 121 122