Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala
View full book text
________________
गुर्वावली। १०३ ॥ युग्मम् ॥ ४ । ५। ६॥ दुष्टादृष्टजकष्टपिष्टपटुभिः षष्ठाष्टमाद्यैः सदा सन्मासक्षपणादिकैश्च मुनयो बायैर्विचित्रक्रमैः । एकाहं यहकं त्र्यहं च विहितोत्सर्गादिभिश्चान्तरैरस्मिन् शासनभासनं विदधते प्रौढेस्तपःकर्मभिः५८१७ सत्काव्यादिकलाकलापकुशलं संश्रुत्य येषां वचः कारुण्यं दधते गुरौ सुमनसां प्राज्ञाः कवौ ज्ञेऽपि च । राजन्यावलिमौलिमौलिगमणीदीप्ताहयः सूरयस्तेनैकेऽत्र विभान्ति कोविदसभालङ्कारहारोपमाः५९।८। प्रभावकैरेवमनुत्तरप्रभैरयं समग्रैरपि राजते गणः । नरत्नजाति खलु सा प्रजायते रत्नाकरं या समतीत्यवर्त्तते ॥ ६ ॥
गणे भवन्त्यत्र न चैव दुर्मदा____ नहि प्रमत्ता न जडा न दोषिणः । विडूरभूमिः किल सोषवीति वा
___ कदापि किं काचमणीनपि क्वचित् ॥६॥ कस्मात् कस्माद्विनिर्गत्य हेतुभिर्विशदेतरैः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122