Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 107
________________ ९८ श्रीमुनिसुन्दरसूरिविरचिता आनन्दवल्लभाह्वा विशदगुणाः सहजधर्मनामानः। विबुधेन्द्रशीलकुम्भा विख्याताः शान्तिमूर्तिबुधाः ३१ निस्सङ्गतैकरङ्गा वनवासे सोमशेखरा लीनाः। गुर्वादेशधुरीणा विमलादिकमूर्तयश्चाऽपि ॥ ३२ ॥ सर्वसमुद्राद्या अपि बहवो लुप्तान्यगणकतारकभाः। गच्छेशार्ककरा इव दिशि २ निघ्नन्ति मोहतमः॥३३॥ पञ्चभिः कुलकम् । प्रायो भान्ति गणेऽस्मिन् पदान्यहो चतुरशीतिसङ्ख्यानि । इव तावतां गणानां सारैर्विहितानि विधिनात्तैः॥३४॥ गुरुर्विनयो गणभक्तिर्ज्ञानचरित्रादयश्च निईन्डाः । आसन्महत्तरायां सुगुणाश्चारित्रचूलायाम् ॥ ३५ ॥ यस्याः समयार्थमणीविडूरभूमेः पुरः श्रयेद्ब्राह्मी। आकोशलं प्रशस्या महत्तरा भुवनचूला सा ॥३६॥ प्रवचन १ धर्मकथाज्ञौ २ वादी नैमित्तिक ४ स्तपस्वी ५ च । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122