Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 104
________________ गुर्वावली। श्रितस्य तेषां व्यथते न मूर्खिमा । न नैशमन्धातमसं प्रगल्भते विलेप्तुमुष्णांशुकराम्बुजं यतः ॥ १३ ॥ यतिजीतकल्पवृत्तिवृत्तिरिव चारित्रकल्पवृक्षस्य । तन्निर्मिता विजयते ऽतिचारचौरादिचारहरा ॥१४॥ उत्फुल्ला:स्तनुलवणिमालोकनात् स्मेरचित्तै ानाद्भाग्यार्पितगुणततेर्वाक्श्रुतेः प्रीतकर्णैः । ये मन्यन्ते विबुधनिकरैर्गौतमस्याऽवतारः श्रेयः श्रेणी ददतु जगते ते जयश्रीपरीताः ॥१५॥ श्रीदेवसुन्दरगुरुप्रभवो गणेशा __ अप्याश्रयन्ति गुरुभिस्त्रिभिरेभिरेवम् । सूक्ष्मार्थबोधरतिकान्तहतिप्रगल्भै नेत्ररिव त्रिमुवनेऽपि हि शङ्करत्वम् ॥१६॥ श्रीमद्गच्छहिमालये लवणिमोत्कल्लोलपद्महदस्ते नूनं गुरुवः सरित्ततिरिवैतेभ्यो विनेयावली। उद्भूता भुवनेऽभितः प्रसृमरा वादिद्रुविद्राविणी पावित्र्यं तनुते हरत्यथ मलं मिथ्यात्वतापापहा॥१७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122