Book Title: Gunkittva Shodshika
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 14
________________ ऑगस्ट २०११ १११४] अस्मात् पर इडादिप्रत्ययो विभाषा - विकल्पेन ङिद्भवति । प्रोर्णुविता, प्रोर्णविता । इडित्येव - प्रोर्णवनं, प्रोर्णवनीयम् । तथाऽपित् सार्वधातुकमिति तथा अपित् सार्वधातुकं द्विद् भवति । इडिति निवृत्तम् । कुरुतः कुर्वन्ति, चिनुतः, चिन्वन्ति । सार्वधातुकमिति किं ? कर्त्ता, कर्त्तुं कर्त्तव्यम् । अपिदिति किं ? करोति, करोषि करोमि ॥९॥ लिड् वाऽसंयोगतः कित् स्यात्, तथेधेर्भवतेः परः । क्त्वा मृडादिगणात् सेट्को, रुदादिभ्यः सना युतः ॥१०॥ व्याख्या : लिड् वाऽसंयोगतः कित् स्यादिति वा-शब्द एवकारार्थः । असंयोगत एव- असंयोगादेव धातोः परो लिट्प्रत्ययः अपित् किद् भवति । ३ बिभिदतुः, बिभिदुः, चिच्छिदतुः, चिच्छिदुः, ईजतुः, ईजुः । असंयोगादिति किं ? सस्त्रंसे, दध्वंसे । केचितु संयोगाल्लिटः कित्त्वं विकल्पयन्ति । तन्मते - ममथतुः, ममथुः ममन्थतुः, ममन्थुः । अपिदित्येव - बिभेदिथ । पूर्ववदत्राऽपि वतिमन्तरेणाऽपि वत्यर्थो गम्यते । १०९ तथेधेर्भवतेः पर इति । तथा इधेर्भवतेश्च परे लिट्प्रत्ययः किद् भवति । समीधे दस्युहतमम् । पुत्र ईधे अथर्वणः । भवतेः खल्वपि - बभूव, बभूविथ । इन्धेः संयोगार्थं ग्रहणम्, भवते: पिदर्थं, तेन बभूवेत्यत्राऽऽतिदेशिककित्त्वेन स्वनिमित्तौपदेशिकणित्त्वस्योपहतत्वाद् वृद्धिसूत्रं न प्रवर्त्तते । गुणस्त्वविशेषविहितत्वेन तत्रापि प्रवर्त्तते एवेति तन्निवृत्तिर्न क्ङिीतित्यनेन । यत्तु कृष्णपण्डितेन- “ननु इग्लक्षणयोर्गुणवृद्धयोः क्ङिति चेति निषेध इत्युक्तं, तत्कथमज्लक्षणाया वृद्धेर्निषेध: ? न च कित्त्ववैयर्थ्यं, थलि उत्तमे णलि च गुणनिषेधार्थत्वेनोपपत्तेः, सत्यं, कित् डिदित्युभयमत्राऽनुवर्त्तते । तत्र कित्त्वेनैव सिद्धे ङित्त्वविधेरज्लक्षणाया अपि निषेधो भवतीत्युक्तं तत्तु न सम्यक् प्रतिभाति, कित्त्वेन णित्त्वबाधात् किति तु विधिसूत्राभावादेव वृद्धेरभावस्ततो न क्ङितीति सूत्रेण तत्प्रतिषेधविधानं व्यर्थमेव । यदि विधायकसूत्राभावेऽपि वृद्धेः प्रतिषेधः क्रियेत, तदा भवतीत्यादौ पित्यपि प्रसजन्ती वृद्धिः कथं वार्या स्यात् ? कित् ङिदित्युभयमनुवर्त्तते इति यदुक्तं, तदपि न, अधिकारान्तरेणा १/२/३ १. विभाषोर्णोः ३. असंयोगाल्लिट् कित् - १/२/५ २. सार्वधातुकमपित् - १/२/४ ४. इन्धिभवतिभ्यां च १/२/६ -

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35