Book Title: Gunkittva Shodshika
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan
View full book text
________________
१०८
शिश्ये। लिडादेशानां तिङ्क्षितां 'लिङचे' ति [ ३/३/१५९] सूत्रेणाऽऽर्द्धधातुकत्वप्रतिपादनात् प्रत्युदाहरणम् ।
सिचीति ऊर्णोतेः इडादौ सिचि परस्मैपदे परे परतो विकल्पेन गुणो भवति । प्रौर्णवीत् । पक्षे वृद्धिः - प्रौर्णावीत् । ' विभाषोर्णोः ' [१/२/३] इत्यङित्त्वपक्षे वृद्धिविकल्पोऽयम् । ङित्त्वपक्षे तु गुणवृद्ध्योरभावे तु उवङ् भवति- प्रौर्णुवीत् । अयं - पूर्वोक्तो गुणस्य विषयः गोचरं, प्रोक्तः इति गम्यते, तुः पादपूर्त्तो ॥८॥
अनुसन्धान-५६
-
१. ऊर्णोतेर्विभाषा - ७/२/६
३. विज इट्
T
१/२/२
कुटादिभ्योऽञ्णितः सर्वे, गाङश्चाऽपि ङितः स्मृताः । विज इड् विभाषोर्णोते - स्तथाऽपित् सार्वधातुकम् ॥९॥
व्याख्या : कुटादिभ्योऽञ्णितः सर्वे गाङश्चापि डित स्मृता इति । गुणप्रतिषेधविषये ‘न क्ङिति क्वचनाऽपिही'त्युक्तम् । तत्रौपदेशिकस्य सुखाभिगम्यत्वादातिदेशिकं ङित्त्वं दर्शयन्नाह - कुट कौटिल्ये [पाणि. धा. १४५४] इत्यत आरभ्य यावत् कुङ् शब्दे [पाणि. धा. १४९३] एते कुटादयो गृह्यन्ते, तेभ्यस्तथा गाङः इति ङकारस्याऽनन्यार्थत्वादिङादेशो गृह्यते, न गां गता [पाणि. धा. १०१६] इति धातु:, तस्माच्च मे ( परे ) ऽञ्णितो ञिणि - तद्व्यतिरिक्ताः सर्वे समस्ताः प्रत्यया डितः स्मृता इति द्विद् भवन्तीत्यर्थः । कथं पुनरन्तरेण वतिं - वत्यर्थो गम्यते ? उच्यते- अन्तरेणाऽपि वतिं - वत्यर्थो गम्यते । यथा- सिंहो माणवकः, यथा वा अब्रह्मदत्तं ब्रह्मदत्त इत्याह (इत्युक्ते) ब्रह्मदत्तवदयं भवतीति प्रतीयते, एवमिहाऽपि अङितं ङिदित्याह, ङिद्भवतीति गम्यते । कुटादिभ्यःकुटिता, कुटितुं, कुटितव्यम् । गाङ् - अध्यगीष्ट, अध्यगीषातां अध्यगीषत् । अञ्णित इति किं ? उत्कोटयति, उत्कोटकः, उत्कोटो वर्त्तते । व्यचेः कुटादित्वमनसीति वक्तव्यं [वा०] - विचिता; विचितुं, विचितव्यम् । अनसीति किं ? उरुव्यचा: ।
विज इडिति । ओविजी भयचलनयोरस्मात् पर इडादिप्रत्ययो ङिद् भवति। उद्विजिता, उद्विजितुं, उद्विजितव्यम् । इडिति किं ? उद्वेजनीयम् । विभाषोर्णोतेरिति । इडित्यनुवर्त्तते । ऊर्णुञ् आच्छादने [पाणि. धा. २. गाङ्कुटादिभ्योऽञ्णिन्डित् - १/२/१

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35