Book Title: Gunkittva Shodshika
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan
View full book text
________________
ऑगस्ट २०११
१०७
उपधाया' [७/२/११६] इति वृद्धिः प्राप्नोति, नैष दोषः, चिण्णमुलोर्गुणप्रतिषेधाल्लिङ्गादुपधालक्षणवृद्धिर्न भवति इत्यवसीयते । अन्यथा चिण्णमुलोः गुणरपरत्वयोः कृतयोरुपधालक्षणया वृद्ध्या सिध्यति रूपमिति प्रतिषेधं न विदध्यात् ।' 'यदि तु गुणे कृते वृद्धिमात्राप्रवृत्ते लिङ्गं चेण्णमुलोः प्रतिषेध आश्रीयते तदा जागृग्रहणं शक्यमकर्तुं, सो 'नेटि' इत्यनेन [७/२/४] प्रतिषिध्यते तस्यां च प्रतिषिद्धायां 'अतो हलादे'रिति [७/२/७] विकल्पः प्राप्नोति, तमपि बाधित्वा दतो ल्रान्तस्ये'ति [७/२/२] नित्या वृद्धिः । तां बाधितुं जागृणिश्वी[ति] जागृग्रहणम् । तथोक्तम्
"गुणोवृद्धिर्गुणो वृद्धिः, प्रतिषेधो विकल्पनम् ।।
पुनर्वृद्धिनिषेधोऽतो, यण्पूर्वाः प्राप्तयो न वा ॥" इति
क्ङित्यचि मृजेर्वृद्धिर्वेष्यते', तेन मृजन्ति, मार्जन्तीति रूपद्वयसिद्धिः, सा तु गुण(णा)विषयकत्वान्नोक्ता । णि- ऊनयीत्, एलयीत् । श्वि- अश्वयीत् ।
अनिटां चैवाऽविशेषतः बाधते वृद्धिरत्यन्तमिति च पुनरनिटां धातूनां अविशेषत एव सामान्यत एव अन्ते उपधायां चेत्यर्थः, अत्यन्तमपवादराहित्येन वृद्धिर्बाधते । अकार्षीत्, अहार्षीत्, अभैत्सीत्, अच्छेत्सीदिति ।।
मृजेवृद्धिः [७/२/११४] गुणाद् भवेत् इति गुणाद् गुणनिमित्ताद् गुणकारणात् क्डिद्वर्जसार्वधातुकार्द्धधातुकादिति, यावदर्थाद् गुणं बाधित्वा वृद्धिर्भवति निरवकाशत्वात् । मार्टा, माटव्यं, परिमाष्टि ॥७॥
तथैव शीङः सर्वत्र, गुणः स्यात् सार्वधातुके ।। सिच् ऊ(च्यू)ोतेर्विकल्पेन, गुणस्य विषयस्त्वयम् ॥८॥
व्याख्या :- तथैव शीङः सर्वत्र गुणः स्यात् सार्वधातुके इति शीङः सर्वत्र सार्वधातुके गुणस्स्यात् ।। सर्वत्रग्रहणं न क्ङितीति निषेधबाधनार्थम्, तेन तत्रापि गुणो भवतीत्यर्थः । शेते, शयाते, शेरते । सार्वधातुक इति किं ? १. चिण्णमुलोर्दीर्घोऽन्यतरस्याम् - ६/४/९३ २. मृजेरजादौ सङ्क्रमे विभाषा वृद्धिरिष्यते - वा० । ३. 'नेटि' [७/२/४] इत्यनेन सूचितमिदम् । ४. सिचि वृद्धि० - ७/२/१, वदव्रजहलन्तस्याऽचः - ७/२/३ ५. शीङः सार्वधातुके गुणः - ७/१/२१

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35