Book Title: Gunkittva Shodshika
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 20
________________ ऑगस्ट २०११ ११५ मृषस्तितिक्षावचनादिति । मृषेर्धातोः तितिक्षावचनात् तितिक्षार्थात् सेड्निष्ठा किन्न भवति इति । मर्षितः, मर्षितवान् । तितिक्षावचनादिति किं ? अपमृषितं वाक्यमाह । तितिक्षा- क्षमा, शान्तिरिति यावत् ।। __ तथा भावादिकर्मणोः उदुपान्त्याद् विकल्पेनेति, उदुपान्त्यात्उकारोपधात् परा भावादिकर्मणोः सेण्निष्ठा वा किन्न स्यात् । द्योतितं, द्युतितं, तेन प्रद्युतितः, तेन प्रद्योतितः । मुदितमनेन, मोदितमनेन, प्रमुदितः, प्रमोदितः । उदुपधादिति किं ? स्वेदितमनेन । भावादिकर्मणोरिति किं ? रुचितं कार्षापणम् । सेडित्येव- प्रभुक्त ओदनः । व्यवस्थितविभाषा चेयं तेन शब्विकरणानामेव भवति । गुध् परिवेष्टने [पाणि. धा. ११९५] गुधितमित्यत्र न भवति । कर्मक्रिया एकफलोद्देशप्रवृत्ताऽनेकक्षणसमूहरूपा, तस्या आदिक्षणः आदिकर्म । आद्यक्षणे प्रवृत्ते धात्वर्थभूता क्रिया नाऽप्रवृत्तेति वचनम् । अथवा न्यायसिद्धोऽयमर्थः, आदिक्षणमात्रे क्रियात्वारोपात्, तदुक्तम् "समूहः स तथाभूतः, प्रतिभेदं समूहिषु । समाप्यते ततो भेदे, कालभेदस्य सम्भवः ॥" इति । तथा पूङः कितौ इति पूङः परः क्त्वाप्रत्ययः निष्ठा च सेड् न किद् भवति । पवितः, पवितवान् । मुनेः- पाणिनेः सूत्रानुसारठयं गुणातिदेशिकविचारः । श्रीमद्गुरोः प्रसादेन प्रापञ्चि मतिकीर्तिना ॥१६॥ श्रीयुगप्रधानश्रीमच्छ्रीजिनसिंहसूरिविजयिराज्ये श्रीमद्गुरूणां श्रीजयसोममहोपाध्यायानां प्रसादेनाऽनुभावेन मतिकीर्त्तिना पाठकश्रीगुणविनयविनेयेन प्रापञ्चि- प्रपञ्चितो विस्तारितः । श्लोकबन्धेन पाणिनिसूत्रानुसारेण शब्दानुशासननिष्णातमतीनां विदुषां पुरः प्रकाशितः इत्यर्थः । इति श्रीगुणकित्त्व-षोडशिका ॥ पं० श्रीजीवकीर्तिगणि-लिखितं ॥ १. मृषस्तितिक्षायाम् - १/२/२० २. उदुपधाद् भावादिकर्मणोरन्यतरस्याम् - १/२/२१ ३. पूङः क्त्वा च - १/२/२२

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35