Book Title: Dharmsagariya Utsutrakhandanam
Author(s): Gunvinay Gani, Dharmsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 10
________________ धर्म सागरोय उत्सूत्र खण्डनम् ३-तथा “मासंकप्पस्स वुच्छेओ'त्ति मकारस्यालाक्षणिकत्वान्मासकल्पस्य व्युच्छेदस्तदुत्सूत्र " तदप्यज्ञताबोधकं वचः, इयमाचरणा, यतः पञ्चवस्तुकसूत्रवृत्योरुक्तं-" अवलंबिऊण कज्जं, जं किंचि समायरति गीयत्था । थोवावराहबहुगुण, सम्वेसि ते पमाणं तु ।२७९॥ व्याख्या-अवलंब्याश्रित्य यत्किश्चिदाचरन्ति-सेवन्ते, गीतार्था-आगमविदः, स्तोकापराधं बहुगुणं मासकल्पाविहारवत् , सर्वेषां-जिनमतानुसारिणां तत्पमाणमेव, उत्सर्गापवादरूपत्वादागमस्येति गाथार्थः” एतावता मासकल्पेन योऽविहारः-अविहरणं तद्वदन्याप्याचरणा प्रमाणमेवेति वदता (उक्त) मासकल्पेन न विहियते, इयमाचरणा कथमुत्सूत्रं त्वयोदितं ?, अन्यच्च सहेतुकं मासकल्पाविहरणं पञ्चलिङ्गीप्रकरणेऽपि (५३ पत्रे) द्वादशमगाथा व्याख्याने प्रोचे, तथाहि-"गीतैः-गीतायः प्रमादबाहुल्यकालादिदोषादागमोक्तमपि प्रतिषिद्धंनिवारितं यतीनां सम्मति मासविहारात्मादिप्रमाणकल्पधारणपटलादिग्रहणप्रभृति, मासकल्पपायोग्यक्षेत्राद्यभावेन यतीनां धृतिसंहननादिवैकल्येन शैक्षाऽगीतार्थादीनां भिक्षादिषु मर्यादालोपेन च गीताद्रव्यतो मासकल्पविहारादिप्रतिषेधेनाचरणाकल्पव्यवस्थापनात् , तथा च व्यवहारभाष्यकारः 'घिइसंघयणाईणं, मेराहाणि च जाणिउं थेरा । सेहअगीयत्थाणं, ठवणा अईनकप्पस्स ।।' तथा 'कालाइदोसओ पुण, न दनओ एस कीरइ नियमा। भावेण उ काययो, संथारगवच्चयाईहिं । १।' इत्यादि " इति तृतीय कण्टकोद्धारः १।२३। मोत्तूणं चउपब्,ि पोसहपडिसेहणं च तस्स मए । छठाइतवुच्चरणं', पढमदिणे तेण पडिसिद्धं । ४। " तस्य मते चतुष्पवर्वी विना पौषधप्रतिषेधनं” इदमप्युत्सूत्रं वदतस्ते न वक्रं वक्री भवति !, शास्त्रेषु विद्यमानस्य भावस्यापन्हवात् , यतः-"शास्त्रे चतुष्पामेव पौषधभणनात् , चतुर्विधेन शुद्धन, पौषधेन समन्वितं । तत्पर्वदिवसे कृत्य, मऽतिचारविवर्जितं ।११२।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74