Book Title: Dharmsagariya Utsutrakhandanam
Author(s): Gunvinay Gani, Dharmsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 69
________________ परिहारहाणं अणुग्याइय" तथा लोकविरुद्धश्चायं सहविहारः, ये केऽपि पश्यन्ति तेऽपि निन्दन्त्यही ब्रह्मचर्यधारिणोऽमी !!, योगीयोगिनीवद्ये वनिताभिविरहिता दिनमपि स्थातुं न शक्नुवन्तीति, अपरञ्च तेषामपि मध्ये केचिद्भुक्तभोगाः केचिदभुक्तभोगाः केचिधुवानस्त- | तस्तेषां ताः दृष्ट्वा कथं चतोवृत्तौ कलाकेलिकेलयो जलधिजलवेला इव प्रसरन्त्यो वार्यन्ते ?, न च सर्वेऽपि श्रीस्थूलभद्रस्वामिसधर्माणः सन्ति, तत्समयेऽपि तत्समतां न केऽपि लेभिरे, ततः सम्पति तथाविधाः कथं भवेयुः ?, ततस्तासां सङ्गतिरेवासङ्गतीतोरिवाखूनां, येषां पुनः पवित्रचारित्रपालनापेक्षा नास्ति ते सहविहारविचारं विदधतां, एवं विहरद्भिस्तैरुभयपक्षविनाशोऽपि नापेक्षितोऽन्यथा त्वेकपक्ष एव दोषपोषो भवत्यन्यत्र तु पक्षेऽक्षतशीलखमिति लाभोऽपि गवेष्यस्तेन, एवं विचाय्यवास्मद्गुरुभिः साधुसाध्वीसहविहारः प्रत्यषेधीति, न चापगुणाभाव एव, किन्तु गुणा अपि, एतावता सहविहारे मैथुनप्रतिसेवावनिषेध एव श्रेयानात्रापवादः, क्षेत्रान्तरनयनं तु पूर्वोक्तानामाचार्यादीनामन्यतरस्यैव, न सामान्यसाधूनामिति, तदेवं सिद्धान्तपक्षमभ्युपगच्छन्नपि तं वचनैरेव निराकुर्वन्नूनं कुलीनताऽभिमानिनो में मानवस्य स्वजननीमाजन्मतोऽप्यसतीमाचक्षाणस्य वृत्तमनुकुरुषे, तस्मात् रहस्यवस्थाय रहस्यमिदमक्षिणि निमील्य बुद्धिशमुन्मील्य मध्यस्थवृत्या युक्त्यनुसारकप्रवृत्या विमृश्यमवश्यं ।।६। ३०-तथा “ सांगरिकबुबुलादीनां द्विदलत्वेनोपदेशोऽपि दस्तुवितथभणनं" इदमपि प्रमादाच्वयाऽलेखि, पूर्व 'सांगरिके'त्यपशब्दः, "फले तस्यास्तु सङ्गर"मिति 'निघण्टुशेषे' प्रोक्तखात् सर्वत्र तथा संवादाच्च, अथ सङ्गरकादीनां द्विदलत्वं दर्शयामस्तथाहि 'चैत्यवन्दनकुलके' "संगरहलिमुग्गमुहुछ, मासकंडुयपमुख्खबियलाई । सहगोरसेण न जिमे, एयं रायत्तियं न करे ।१८। जम्मि य पीलिज्जी, मणयपि न नेह निग्गमो हुन्जा । दुमि य दलाइ दीसंति, मित्थगाईण जह लोए।१९।” तथा “दहिए विगइगयाई, घोलवडा घोलसिहरणि करंबो।

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74