Book Title: Dharmsagariya Utsutrakhandanam
Author(s): Gunvinay Gani, Dharmsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 68
________________ धर्म उत्सूत्र खण्डनम् सागरीय संयतास्तैः सहितः गणधरः आत्मद्वितीय आत्मतृतीयो वा संयतीविवक्षितक्षेत्र नयति, अथ स्तेनादिभयं वर्तते ततः सार्थेन सार्दै । नयति, यो वा संयतः 'कृतकरणः' इषुशास्त्रे कृताभ्यासरतेन सहितः संयतीस्तत्र नयति, स च गणधरः स्वयं पुरतः स्थितो गच्छति संयत्यरतु मार्गतः स्थिता, अत्रैवं मतान्तरमुपन्यस्य दूषयमाह" इत्यादि, तथा यतिजीत(कल्प)बृहद्वृत्तौ "आचार्यः संयतीवर्तापकः प्रथमभङ्गवर्त्यनुज्ञातो, न शेषभङ्गत्रयवर्ती, ते चामी भङ्गाः-सहिष्णुरपि भीतपरिषदपि १, सहिष्णुन भीतपरिषत् २, असहिष्णुः परं भीतपरिषत् ३, असहिष्णुरभीतपरिषञ्च ४, तत्रेन्द्रियनिग्रहसमर्थः संयतीप्रायोग्य क्षेत्रवस्त्रपात्रादीनामुत्पादनायां प्रभविष्णुः सहिष्णुरुच्यते, । यस्य तु सर्वोऽपि साधुसाध्वीवर्गों भयान कामप्यक्रियां करोति स भीतपरिषत् , तत्र प्रथमभङ्गे वर्तमानः संयतीपरिवर्त्तने समुचितः, शेषेषु त्रिषु भङ्गेषु वर्तमानो मानुज्ञातः, यदि परिवर्तयति तदा चहरुकाः, यतो द्वितीयभङ्गे आत्मना सहिष्णुः परमभीतपरिषत्तया स्वच्छन्दप्रचाराः सत्यो यत्किमपि ताः करिष्यन्ति तत्समयमेव पामोति, तृतीयभङ्गे तु स्वयमसहिष्णुतया तासामङ्गप्रत्यङ्गादीनि दृष्ट्वा यदाचरति तनिष्पन्न (दोषमवाप्नोति), चतुर्थभने द्वितीयतृतीयभङ्गदोषानवामोति, प्रथगभगवर्तिनश्वाचार्यस्य यथावत्संयतीपरिवर्त्तने अतिमहती कर्मनिर्जरेति" तथाऽऽचार्योपाध्यायानां तन्नयनसंवादक श्रीआचाराङ्गसूत्र, तथाहि-"से भिरखु वा भिरखुणी वा आयरियउवज्झा एहिं सद्धिं दूइज्जमाणे नो आयरियउवज्झायरस हत्थेणं हत्थं, जाव अणासायमाणे आयरिय उवज्झाएहि सद्धि जाव दूइज्जेज्ज का" a इत्यादि (३८३ पत्रे), तथा श्रीनिशीथेऽपि (अष्टमोद्देशके ४६ पत्रे) साध्वीभिः समं साधूनां विहारः प्रतिषिद्धस्तथाहि-"जे भिख्खु सगणच्चियाए परगणच्चियाए निग्गंथीए समं गामाणुगाम दुइज्जमाणे पुरओ गच्छमाणे पिठओ रीयमाणे ओहयमणसंकप्पे चिंतासोकसागरं संपविढे करयलपल्हत्थमुहे अट्टझाणोवगए विहार करेइ जाव करेंतं वा सातिजति, जाव तं सेवमाणे आरज्जति साउम्मासियं

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74